________________
हितीयः परिच्छ ेदः ।
१७३
शरेष्वेव नरेन्द्रस्य मार्गगत्वञ्च वर्त्तते ॥ ३१८ ॥ पद्मानामेव दण्डेषु कण्टकस्त्वयि रक्षति । अथवा दृश्यते रागिमिथुनालिङ्गनेष्वपि ॥ ३२० ॥
असौ खड्ग एव न तु अन्यत्र निस्त्रिंशत्वं निर्गतस्त्रिंशतोऽङ्गलिभ्य इति व्युत्पत्त्या त्रिंशदङ्गुल्यधिकपरिमाणवत्त्व निर्दयत्वञ्च, अथ निस्त्रि ंशः खड़ े ना निर्दये त्रिषु इति मेदिनी । वक्रता कौटिल्यं प्रतिकूलता च धनुष्येव नान्यत्र मार्गणत्वं बाणत्व ं शरेषु एव न तु आत्मनि इत्यर्थः, वर्त्तते इति सर्वत्रान्वेतव्यम् । अत्र प्रत्येकमेवकारेण द्वितीयार्थानां व्यवच्छिन्नत्वात् नियमवानर्थश्लेषः परिसङ्ख्याऽलङ्कारं पुष्णातौति तदङ्गम् । परिसंख्यालङ्कारश्च ग्रन्थकृतानुक्तः परं वैचित्रासद्भावात् अपरैरुक्तः । यथा, प्रवादप्रश्नतो वापि कथितात् वस्तुनो भवेत् । ताट्टगन्यव्यपोहश्चेच्छाब्द आर्थोऽथवा तदा ॥ परिसंख्येति। यदि च, विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । अत्र च अन्यत्र च प्राप्ते परिसंख्येति गीयते ॥ इति नियमपरिसंख्ययोर्भेदः प्रतीयते, किन्तु अत्र परिसङ्ख्या अन्धव्यपोहमात्त्रप्रतौतिरेव न तु ताट्टग्लक्षणेति अविरोध इति बोध्यम् ॥ ३१८ ॥
नियमाक्षेपरूपोक्तिमुदाहरति पद्मानामिति । त्वयि रक्षति सति पद्मानामेव दण्डेषु नालेषु न तु दण्डनामकोपायेषु, अथवा रागिणः अनुरक्तस्य मिथुनस्य स्त्रीपुंसयोरालिङ्गनेषु अपि कण्टकः तीक्ष्णाग्रावयवः रोमाञ्चः क्षुद्रशत्रुच, रोमाचे क्षुद्रशत्रौ च तरोरङ्गे च कण्टक इति कोषः । दृश्यते । अन पद्मानामेवेति नियमस्य अथवेत्यादिना श्रक्षेपरूपा उक्तिरिति