________________
द्वितीयः परिच्छेदः। १०५ गुग्णजातिक्रियादीनां यत् तु वैकल्यदर्शनम् । विशेषदर्शनायैव सा विशेषोतिरिष्यते ॥ ३२३ ॥ न कठोरं न वा तीक्षामायुधं पुष्पधन्वनः । तथापि जितमेवासीदमुना भुवनवयम् ॥ ३२४ ॥ मध्याहार्यम्। अत्र अच्युतादिपदानां हितीयार्थे विष्णादौ कृषच्छेद्यादिपदार्थान्वयो विरुद्धे इति विरोधवान् अयं श्लेषः विरोधाभासस्याङ्गम् ॥ ३२२ ॥
विशेषोक्तिं निरूपयति गुणेति। विशेषस्य प्रस्तुतस्य वाद्यतिशयः तस्य दर्शनाय प्रतिपत्तये गुणजातिक्रियाणाम् आदिपदेन द्रव्याणाञ्च यत् तु वैकल्यदर्शनं कार्यसिद्धावनुपयोगित्वप्रतिपादनं सा विशेषोक्तिर्नाम अलङ्कार इष्यते इत्यन्वयः। अतिशयोक्ती, प्रस्तुतस्य विशेषदर्शनसद्भावेऽपि गुणादौनां वैकल्यप्रतिपादनं नास्तीत्यनयोर्भेदः । एवकारेण विशेषदर्शनाभावे नायमलङ्कार इति ध्वनितम् । विश्वनाथादयस्तु, सति हेतौ फलाभावो विशेषोक्तिस्तथा विधेति लक्षणमाहुः ॥ ३२३ ॥
अत्र गुणवैकल्ये विशेषोक्तिमुदाहरति नेति। पुष्पधन्वनः पायुधम् अस्त्रं न कठोरं न वा तीक्ष्ण, पुष्पमयत्वादिति भावः, तथापि अमुना भुवनत्रयं जितमेव आसीत्। अत्र कामस्य वौर्योत्कर्षरूपविशेषप्रदर्शनाय आयुधस्य कठोरत्व- । तौरवत्वरूपयोर्गुणयोर्वैकल्यदर्शनरूपा विशेषोक्तिः । विभावनायां गूढकारणस्य स्वाभाविकत्वस्य वा विभावने तात्पर्यमस्ति भव तु विलोपकरणं कार्यनिष्पादकतया वर्णना यस्य उत्कर्षप्रतिपादने तात्पर्य्यमस्तीत्यनयोर्भेदः ॥ ३२४ ॥ .