________________
२३६
काव्याद” यः स्वरस्थानवर्णानां नियमो दुष्करेष्वसौ । दृष्टश्चतुःप्रभृत्येषु दर्श्यते सुकरः परः ॥ ८३ ॥ पामायानामाहान्त्या वाग्गीतीरीतीः प्रीतीर्भीतीः । भोगो रोगो मोदो मोहो ध्येये धेच्छे देश मे॥८४॥ भवेन वेति विवेकरहिता इत्यर्थः पुनश्च माया मां लक्ष्मी यातीति तथोक्ता अतिसुन्दरीत्यर्थः । सा रामा मत्प्रेयसी मासा चन्द्रेण अमा सह छायामृगधरो राजा माः इति त्रिकाण्डशेषः । माराय मम विनाशाय, तस्याः स्मरणं चन्द्रोदयश्च सम्प्रति मां भृशं व्याकुलयतीत्यर्थः। विरहिणो वचनमिदम् ॥ ८२॥ ___ य इति। दुष्करेषु मध्ये स्वरस्थानवर्णानां खराः आकारादयः स्थानानि कण्ठादीनि वर्णाः व्यञ्जनानि तेषां योऽसौ नियमः प्राचीनैरलङ्कारतया उक्त इति शेषः, एषु मध्ये इष्टः दुष्करत्वेन अभिमतः चतुःप्रभृति दर्श्यते चतुःप्रभृतीत्यनेन चतुस्त्रियकरूपत्वात् चत्वारो भेदा दर्श्यन्ते इत्यर्थः परः अन्यः बञ्चादिः सुकरः अतस्तदुदाहरणं यथायथं मृग्यं दुष्करसाधनार्थमेव मम प्रयास इति ध्वन्यते ॥ ८३ ॥ __ तत्र प्रथमं चतुःस्वरमुदाहरति आम्नायानामिति। आमायानां श्रुतीनाम् अन्त्या चरमा वाक् गौतिः गानानि ईतीः अतिवृष्ट्याद्युपप्लवरूपाः, तथा प्रोतीः पुत्रदारादिषु प्रणयान् भौतौः भयङ्करीरित्यर्थः वियोगादिनेति भावः आह ब्रवीति, अतःकारणात् भोगः सङ्गीतादिविषयोपभोगः रोगः व्याधिखरूपः तथा मोदः वैषयिकानन्दः मोहः अज्ञानमेव तस्मात् क्षेमे देशे पुण्यभूमी ध्येये परमात्मनि धेच्छे धा मनःसमाधानम्