________________
तीय: परिच्छेदः ।
२३७ क्षितिविजितिस्थितिविहितिव्रतरतयः परगतयः । उरु रुरुधुर्गुरु दुधुवयुधि कुरवः स्वमरिकुलम्॥५॥ श्रीदीप्तौ हौकीर्ती धौनीती गी:प्रीती। एधेते हे हे ते ये नेमे देवेश ॥ ८६ ॥ सामायामामाया मासा मारानायायानारामा। यानावारारावानाया माया रामा मारायामा॥८७
स्वरनियमः ।
इच्छा तत्प्रात्यभिलाषः ते विधेये इति शेषः धेच्छे इत्यत्र धेच्छे इति पाथे ध्या ध्यानमित्यर्थः । अत्र आ ई ओ ए इति चतुर्भिरेव खरैः पद्यबन्धः । विद्युन्मालावृत्तमिदम् ॥ ८४ ॥ ___ विस्वरमुदाहरति क्षितीति। क्षितः पृथिव्याः विजितिः विजयः स्थितेर्मादाया विहितिः विधानं ते एव व्रते क्षितिविजितिस्थितिविहितिव्रते तयोः रतिः अनुरागो येषां तथोक्ताः तथा परा उत्तमा गतिर्येषां तादृशाः कुरवः युधि युद्धे स्वम् अरिकुलम् उरु अत्यर्थं रुरुधुः तथा गुरु यथा तथा दुधुवुः कम्पितवन्तः । अत्र इ अउ इति त्रिभिरेव स्खरैः पद्यबन्धः । त्वरितगतिवृत्तमिदम् ॥ ८५ ॥
हिवरमुदाहरति श्रीदीप्तौ इति । श्रीः लक्ष्मीः दीप्तिः कान्तिश्च ते ह्रौः लज्ना कौर्तिश्च ते, धौर्बुद्धिः नीतिश्च ते, गौः मधुरवाक् प्रौतिश्च सन्तोषश्च ते हे हे ते तव एधेते वईते, ये इमे हे हे देवेशे देवानामौखरे इन्द्रे इत्यर्थः न विद्यते इति शेषः । अत्र ई ए इति द्वाभ्यामेव स्वराभ्यां पद्यबन्धः । वाणीवृत्तमिदम् ॥ ८६ ॥