________________
२३८
काव्यादर्श
नयनानन्दजनने नक्षत्रगणशालिनि । अपने गगने दृष्टिरङ्गने ! दीयतां सकृत् ॥८८॥ पलिनीलालकलतं के न हन्ति घनस्तनि ।। पाननं नलिनच्छायनयनं शशिकान्ति ते ॥८॥ अनङ्गलङ्घनालग्ननानातका सदङ्गना। सदानघ । सदानन्दनताङ्गासङ्गसङ्गतः ॥ ६ ॥
मेति। पद्यमिदं सर्वतोभद्रोदाहरणत्वेन पूर्व लिखितं व्याख्या तञ्च। आ इत्येनैव स्वरेण पद्यबन्धः ॥ ८७ ॥
अथ स्थाननियमे दर्शयितव्ये प्रथमं चतुःस्थानं दर्शयति नयनेति। हे नयनानन्दजनने अङ्गने ! सुन्दरि! अपने मेघरहिते अतएव नक्षत्रगणशालिनि तारानिकरभूषिते गगने सतत् एकवारं दृष्टि: दीयतां नयनानन्दजनने इति गगने इत्यस्यापि विशेषणं सङ्गच्छते। मानिनी सान्त्वयतो नायकस्य तादृशगगने दृष्टिपातोक्तः कामोद्दीपकत्वादनायासेनैव मानभङ्गः स्यादिति तत्पर्यम् । अत्र दन्त्यतालव्यकण्ठयमूर्धन्यैरेव वर्णैः पद्यबन्धः ॥ ८८॥
त्रिस्थानं दर्शयति अलीति। हे घनस्तनि । अलय इव नौला अलका लता यत्र तत्, नलिनच्छाये पद्मसदृशे नयने यत्र तादृशं तथा शशिनः कान्तिरिव कान्तिर्यस्य तथाभूतं ते तव आननं कं जनं न हन्ति नाकुलयति अपितु सर्वमेवेत्यर्थः । अत्र कण्ठयदन्यतालव्यैरेव वर्ग: पद्यबन्धः ॥ ८८ ॥ .
हिस्थानमुदाहरति अनङ्गेति । हे सदानघ ! सदा अनघ ! अपाप ! व्यथारहितेत्यर्थः, तथा हे सदानन्दनताङ्ग ! सदा