________________
तृतीयः परिच्छ ेदः ।
अगा गाङ्गाङ्गका काकगाहकाघककाकहा ।
अहाहाङ्ग ! खगाङ्कागकङ्कागखगकाकक ! ॥ ११ ॥ स्थाननियमः ।
२३८
आनन्देन गीतवादिवाद्यामोदेन नतानि व्यापृतानि अङ्गानि यस्य तत्सम्ब, डौ, सदङ्गना साध्वी नारी असङ्गसङ्गतः नास्ति सङ्गो येषां ते असङ्गाः दुर्जनाः तेषां सङ्गः तस्मात् अनङ्गलङ्कनेन कामपौड़या लग्नाः जाताः नाना विविधाः आतङ्काः सन्देहाः यस्यां तादृशो भवति, भर्तृविरहेण सती अपि दुर्जनामङ्गेन भ्रश्यतीति भावः । तस्मात् भार्य्यीं प्रतिचिन्तय केवलं वृथामोदेनालमिति सखायं प्रति कस्यचिदुक्तिः । अव दन्त्यकण्ठैरेव पद्यरचना ॥ ८० ॥
एकस्थानमुदाहरति अगा इति । हे गाङ्गकाकाकगाहक ! गङ्गाया इदं गाङ्गं यत् कं जलं तस्य आकाकः सशब्दवक्रगतिः आङ्पूर्वात् के शब्दे इत्यस्मात् भावे क्विपि आकाः अक कुटिलगतावित्यस्मात् भावे ङप्रत्यये अकः आका सह अकः आकाकः तरङ्ग इत्यर्थः तं गाहते इति तथेोक्तः तत्सम्बु डौ तथा हे अहाहाङ्ग ! हाहां दोनतासूचकं ध्वनिविशेषं गच्छतीति हाहाङ्गः न हाहाङ्गः अहाहाङ्गः तत्सम्बुडौ, किञ्च हे खगाङ्गागकङ्क ! खं गच्छन्तीति खगाः सूर्य्यादयः, ते अङ्गाविज्ञानि यस्य स खगाङ्गः, स च असौ अगः पर्वतश्चेति खगाङ्कागः सुमेरुरित्यर्थः तं कङ्कते गच्छतौति तथेोक्तः ककिगतावित्यस्मात् अन्प्रत्ययः । तत्सम्ब, डौ, पुनश्च हे अगखगकाकक! अगति गच्छति इति अगं नश्वरमित्यर्थः खानि इन्द्रियाणि गच्छतीति खगम्, इन्द्रियविषयं ततश्च अगं खगच्च यत् । कं सुखं तदर्थं न ककते