________________
काव्यादर्शः ।
प्रथमः परिच्छेदः ।
चतुर्मुखमुखाम्भोजवनहंसबधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरखती ॥ १ ॥
प्रणम्य कमलाकान्तं भक्ताभीष्टफलप्रदम् । काव्यादर्शस्य विकृतिं वितनोमि सतां मुदे ॥
किंवदन्तीयं यत् महामहोपाध्यायः श्रीमान् देखौनाम कविः ग्रन्यमिमं स्वयं विरच्य कमपि राजपुत्त्रम् अध्यापयामास इति ।
ग्रन्थारम्भे निर्विघ्नेन प्रारिसितपरिसमाप्तिकामनया कविग्रन्याधिष्ठाटतया वाग्देवतायाः स्मरणरूपमङ्गलमाचरन्नाह चतुर्मुखेति । चतुर्मुखस्य ब्रह्मणः सुखान्येव अम्भोजवनानि पद्मवृन्दानि तेषु हंसबधूः हंसौखरूपा सर्वतः सर्वावयवेन सर्वप्रकारेण च शुक्ला श्वेतवर्णा परिशुद्धा च सरखती वागधिष्ठात्री देवो नित्यं सततं मम मानसे चेतसि तदाख्यसरसि च रमतां विहरतु मानसे सरसि पद्मवनेषु हंसीव या ब्रह्मणो मुखकमलेषु श्रुतिरूपेण सततं विहरति सा सर्वशुद्धा वाग्देवी मम हृदये सततं वसतु इति निष्कर्षः । नित्यमित्यत्र दौर्घमिति पाठे दीर्घं सुचिरमित्यर्थः ॥ १ ॥