________________
तीयः परिच्छेदः।
२५५ पपाथ व्यर्थमेकार्थं ससंशयमपक्रमम् । शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धिकम् ॥१२५॥ देशकालकलालोकन्यायागमविरोधि च । इति दोषा दशैवैते वाः काव्येषु सूरिभिः १२६ प्रतिज्ञाहेतुदृष्टान्तहानिर्दोषो न वेत्यसौ । विचारः कर्कशः प्रायस्तेनालौढ़ेन किं फलम् १२७
___ इत्यं काव्यशोभाकरान् धर्मान् गुणालङ्कारान् निरूप्य काव्यस्य हेयत्वप्रतिपादकानां धर्माणं बहना दोषाणां सविस्तरवर्णने अन्यबाहुल्यभिया प्राधान्येन नितान्तत्याज्वान् दश दोषानुद्दिशति अपार्थमित्यादि। अपार्थं निरर्थकं व्यर्थं विरुद्वार्थम् एकार्थम् अभिवार्थ ससंशयं सन्दिग्धम् अपक्रमं यथाक्रमरहितं, शब्दहोमम् जहादिना पूर्य, यतिभ्रष्ट विच्छेदरहितं, भिववृत्तम् असमवृत्तं विसन्धिकम् प्रकृतसन्धि देशादिविरोधि च काव्यं दुष्टमित्यर्थः तस्मात् सूरिभिः विवद्भिः इति उतरूपा एते अपार्थतादयः दश एव दोषाः काव्येषु वाः त्याज्या: शाब्दबोधप्रतिकूलतया प्रयोक्तुरनताप्रकटनात् । उकञ्च, दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्नुः सैव शंसतीति। एवकारण किञ्चिद्दरस्यप्रतिपादकानां श्रुतिकटुप्रभृतीनां व्यवच्छेदः तेषां अन्वयबोधाप्रतिकूल्येन मात्यन्तं हेयत्वप्रतिपादकत्वात् इति निष्कर्षः ॥ १२५ ॥ १२६ ॥ .
ननु दशैवेति अवधारणमनुचितं प्रतिज्ञाहान्वादेरपि दोषत्वकीर्तनात् । उक्तञ्च, भगवता गोतमेन, प्रतिज्ञाहानि: प्रतिज्ञानन्तरं प्रतिनाविरोध इति । यथोदाहतं, यावज्जीवमहं