SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ काव्यादर्श ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् । अबलाविरहल्लेशविह्वलो गणयत्ययम् ॥ १८३ ॥ प्रमेयोऽप्यप्रमेयोऽसि सफलोऽप्यसि निष्फलः । एकस्त्वमप्यनेकोऽसि नमस्ते विश्वमूर्तये ॥ १८४ ॥ पञ्चानां पाण्डुपुत्राणां पत्नी पाञ्चालपुत्रिका । कलानियमः अत्र च तदैपरीत्यमिति विरोधः बधूजनान् प्रति कामिनामत्यनुरागव्यञ्जकतया गुण एव, कविकौशलेन अत्र प्रयोजकमिति ज्ञेयम् ॥ १८२ ॥ लोकविरोधस्यापि गुणत्वमुदाहरति ऐन्दवेति । अयं कामी अबलाया विरहेण यः क्ल शः तेन विह्वल: व्याकुलः सन् ऐन्दवात् इन्दुसम्बन्धिनः अर्चिषः किरणात् अपेक्ष्येति यवर्थे पञ्चमी हव्यवाहनम् अग्निं शिशिरं गणयति मन्यते। अत्र हव्यवाहनस्य शिशिरत्वं लोकविरुवं तच विरहिणां चन्द्रकिरणस्यात्युद्दीपकत्वव्यञ्जनात् गुण एव ॥ १८३॥ . . न्यायविरोधस्य गुणत्वमुदाहरति प्रमेय इति। भगवत्स्तुतिरियम् । प्रमेयः प्रमाणजन्यज्ञानविषयोऽपि अप्रमेयः अज्ञेयः असि, सफलः फलं कायं विखरूपं तत्सहितः अपि निष्फल: फलरहितः कार्येषु निर्लेपः असि, त्वम् एकोऽहितीयोऽपि अनेकः बहुरूपः असि, अतः विश्वमूर्तये ते तुभ्यं नम इत्यन्वयः। प्रमेयत्वाप्रमेयत्वादिकं परस्परविरुद्ध नैकाधारवर्तीति नैयायिको युक्तिः साचात्र विरुद्धतया भासमानापि परमात्मनोऽचिन्त्यत्वं व्यञ्जयन्ती गुणत्वमेवारोहति ॥ १८४ ॥ आगमविरोधस्य गुणवमुदाहरति पञ्चानामिति। पाञ्चाल
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy