________________
तीयः परिच्छेदः ।
राज्ञां विनाशपिशुनश्चचार खरमारुतः । धुन्वन् कदम्बरजसा सह सप्तच्छदोगमान्॥१८१॥ दोलाभिप्रेरणवस्तबधूजनमुखोद्गतम् । कामिना लयवैषम्यं गेयं रागमवर्द्धयत् ॥ १८२ ॥ प्रभावेण महिना तदुद्यानानि तस्य राज्ञः उद्यानानि आर्द्राणि नवानि इत्यर्थः अंशकानि वस्त्राणि प्रबालानि येषां तेषां सुरशाखिनां देवतरूणाम् आस्पदं स्थानं जजिरे। अत्र मानवोद्यानेषु सुरशाखिसम्भवो देशविरुद्धतया वर्णितोऽपि वर्णनीयस्य राज्ञः प्रभावातिशयं द्योतयतीति चमत्कारव्यञ्जनात् गुणवत्वमापद्यते इति फलितार्थः ॥ १८० ॥
कालविरोधस्य कदाचिद्गुणत्वमुदाहरति राज्ञामिति । राज्ञां प्रतिपक्षभूपानां विनाशपिशुनः विनाशसूचकः पिशुनौ खलसूचकावित्यमरः। खरमारुतः प्रचण्डवायुः सप्तच्छदोइमाम् धुन्वन् कम्पयन् कदम्बरजसा सह चचार । अत्र युद्धयात्रा सप्तच्छदोगमश्च शरत्सु भवति, कदम्बपुष्पाणि तु तदा न जायन्ते वर्षाखेव तेषां प्रादुर्भावात् तदयं कालविरोध प्रकाले फलपुष्पाणि देशविद्रवकारणमिति वचनेन अशुभसूचनात् विजिगीषोः उत्कर्षातिशयव्यञ्जकतया गुण एव, कविकौशलञ्चान हेतुरित्यवधेयम् ॥ १८१ ॥ ___ कलाविरोधस्य क्वचिद् गुणत्वमुदाहरति दोलेति। दोलया अभिप्रेरणेन सवेगचालनेन त्रस्ता ये बधूजनाः तेषां मुखेभ्यः उद्गतम् उच्चरितं लयस्य विरामस्य वैषम्यं वैपरीत्यं यत्र तादृशमपि गेयं भयचकितत्वात् लयासङ्गतमपि गानमित्यर्थ: कामिनां रागम् अवईयत्। गानस्य लयशुद्धिरेव रागवईनीति
२४