SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २७० तीयः परिच्छेदः । सतीनामग्रणीश्चासौदैवो हि विधिरीदृशः ॥१८५॥ शब्दार्थालजियाश्चित्रमार्गाः सुकरदुष्कराः। . गुणा दोषाश्च काव्यानामिह संक्षिप्य दर्शिताः१८६ . व्युत्पन्नबुद्धिरमुना विधिदर्शितेन मार्गेण दोषगुणयोवंशवर्तिनीभिः । वाग्भिः कृताभिसरणो मदिरेक्षणाभि धन्यो युवेव रमते लभते च कीर्तिम् ॥१८॥ पुत्रिका द्रौपदी पञ्चानां पाण्डुपुत्राणां युधिष्ठिरभीमार्जुनमकुलसहदेवानां पत्नी अथच सतीनां साध्वीनाम् अग्रणीः श्रेष्ठा च आसीत् हि यतः दैवः देवसम्बन्धी विधिः ईदृशः । आगमानधीनः तेषां तस्याश्च देवांशतया शास्त्रोक्तत्वादिति भावः। एकस्या .बहुपतित्वं सतीत्वञ्च आगमविरु तच्चान दैवाधीनतया वैचित्रामावहद्गुण एवेति ॥ १८५॥ __ ग्रन्थमुपसंहति शब्देति। इह अस्मिन् काव्यादर्शाख्ये ग्रन्थ शब्दार्थालजिया: शब्दालङ्काराः अलङ्काराः सुकरा दुष्कराच चित्रालङ्काराणां मार्गा नियमाः तथा काव्यानां गुणा दोषाश्च संक्षिप्य दर्शिताः ॥ १८६ ॥ ___ संक्षिप्तेऽप्यस्मिन् फलसिद्धिर्भवतीत्युपपादयन् ग्रन्थ समापयति व्युत्पन्नेति। व्युत्पन्ना संस्कृता बुद्धिर्यस्य तथोक्त: विशुद्धमतिरित्यर्थः धन्यः जनः अमुना विधिदर्शितेन मार्गेण पथा रौत्या इत्यर्थः दोषगुणयोर्वशतिनौभिः निर्दोषाभि: सगुणाभिश्च इत्यर्थ: वाग्भिः कृतम् अभिसरणं यस्य तादृशः सुमधुरकाव्यभाषी सन्नित्यर्थः मदिरेक्षणाभिः मदपूर्णितनयनाभिः
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy