________________
तृतीयः परिच्छदः ।
मानिनी मा निनीषुस्त निषङ्गत्वमनङ्ग ! मे । हारिणी हारिणो शर्म तनुतां तनुतां यतः ॥ १६ ॥ जयता त्वन्मुखेनास्मानकथं न कथं जितम् । कमलं कमलं कुर्वदलिमहलि मत्प्रिये ! ॥ १७ ॥ रमणी रमणीया मे पाटलापाटलांशुका । पयतीत्यर्थः । sa प्रथमद्वितीयचतुर्थपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १५ ॥
मानिनीति । हे अनङ्ग ! मा मां ते तव निषङ्गत्वं तूणत्वम् अनवरतशरसम्पातेन तदाधारत्व' निनीषुः प्रापयितुमिच्छुः सती हारिणो हारालङ्कारशोभिनी हारिणी मनोहारिणो इयं मानिनी मानवतो नारी तनुतां क्षीणताम् अस्याः प्रत्याख्यानादिति भावः, यतः गच्छतः प्राप्नुवतः मे मम धर्म तनुतां यथेयं मानिनी मानं विहाय मामाश्रयति तथानुग्रहः कार्य इति भावः । अत्र प्रथमटतीयचतुर्थपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १६ ॥
नयतेति । हे मत्प्रिये ! मम प्रेयसि ! अस्मान् जयता वशीकुर्वता तव मुखेन कं जनम् अलंकुर्वत् शोभयत् तथा अलिमन्ति भ्रमरयुक्तानि दलानि अस्य सन्तोति तथाभूतं कमलम् अकथं कथारहितं यथा तथा कथं न जितम् ? अपितु जितमेवेत्यर्थः, अस्माकं चेतनानामपि जंयिना ते मुखेन श्रचेतनानि तादृशानि कथनानि जितानीति का कथेति भावः । sa feaीयतृतीयचतुर्थपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १७ ॥
रमणौति । पाटलावत् तदाख्यतरुकुसुमवत् पाटलम्
२०१