________________
काव्यादथे
२०० निगृह्य मेवे कर्षन्ति बालपलवशोभिना। तरुणा तरुणान् कृष्टानलिनो नलिनोन्मुखाः॥१३॥ विशदा विशदामत्तसारसे सारसे जले। कुरुते कुरुतेनेयं हंसी मामन्तकामिषम् ॥ १४ ॥ विषमं विषमन्वेति मदनं मदनन्दनः । सहेन्दुकलयापोढ़मलया मलयानिलः ॥ १५ ॥
नियोति। नलिनेषु पद्मेषु उन्मुखाः पतनाभिमुखाः अलिनः भ्रमराः बालपल्लवैः नवपल्लवैः शोभते इति तथोक्तन तरुणा वृक्षेण कष्टान् आकृष्टान् तद्दर्शनोत्सुकान् इत्यर्थः तरुणान् यूनः नेत्रे निगृह्य कर्षन्ति निजदर्शनोत्सुकनयनान् कुर्वन्तीत्यर्थः । अत्र ढतीयचतुर्थपादगतं मिश्रमव्यवहितादिभागयमकम् ॥ १३ ॥
विशदेति। विशन्तः प्रामत्ताः सारसाः जलपक्षिविशेषा यस्मिन् तादृशे सारसे जले सरोवरजले इयं विशदा शुभ्रवर्णा हंसी राजहंसौत्यर्थः कुरुतेन कुत्सितरवेण रवस्य कुत्सितत्वमुद्दीपकत्वेन विरहिणामसह्यत्गत् इति भावः, मां विरहिणमिति यावत् अन्तकस्य यमस्य अमिषं भोग्यवस्तु कुरुते। अत्र “प्रथमहितीयवतीयपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १४॥
विषममिति। मलयानिल: अपोढ़मलया परित्यक्तमालिचया हिमात्ययादिति भावः, इन्दुकलया सह मदनन्दनः मां न नम्दयतीति तथोक्त: मदप्रौतिजनन इत्यर्थः सन् विषमम् असचं विषं विषरूपं मदनं कामम् अन्वेति अनुगच्छति उद्दी