SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ टतीयः परिच्छेदः। १८८ नौयते च पुनस्तृप्तिं वसुधा वसुधारया ॥ १० ॥ करोति सहकारस्य कलिकोत्कलिकोत्तरम् । मन्मनो मन्मनोऽप्येष मत्तकोकिलनिखनः ॥ ११॥ कथं त्वटुपलम्भाशाविहताविह तादृशी। अवस्था नालमारोढुमङ्गनामङ्गनाशिनी ॥ १२ ॥ तैक्षणेन युद्धदुर्मदत्वेन वसुधा पृथिवी जायते, वसुधारया वसूनां धनानां धारया धारावर्षणेन पुनस्तृप्तिं नीयते च । अत्र . प्रथमचतुर्थपादगतमिश्रमव्यवहितमादिभागयमकम् ॥ १० ॥ करोतीति। सहकारस्य आम्रस्य कलिका तथा एष मन्मनः, सुरते कर्णमूले तु निजदेशीयभाषया। दम्पत्योः कथनं यत् तु मन्मनं तं प्रचक्षते इत्युक्तरहस्यालापरूपः मत्तानां कोकिलानां निखनश्च मन्मन: मम मानसम् उत्कलिकोत्तरम् उत्कण्ठाकुलमित्यर्थः करोति। विरहिण उक्तिरियम् । आमकलिकायाः कोकिलालापस्य च अतीवोद्दीपकत्वातिति भावः । अत्र हितोयटतीयपादगतं मिश्रमध्यरहितमादिभागयमकम् । अत्र उत्कलिकोत्कलिकेति तकारस्य मध्यपातित्वेऽपि स्वरशून्यत्वात् व्यवधानमध्ये अगणनं सस्वरस्यैव व्यञ्जनस्य व्यवधायकत्वाभ्युपगमात् इति बोध्यम् ॥ ११ ॥ कथमिति। इह अस्मिन् प्रदेश तव उपलम्भः प्राप्तिः तस्य आशा प्रख्याशा तस्याः विहती अभावे इत्यर्थः अङ्गनाशिनी शरीरनिकन्तनी तादृशी अवस्था अङ्गनाम् अवलां माम् प्रारोढुम् आक्रमितुं न अलं न समर्था ? अपितु समर्था एव, त्वहिरहे अहं मृतप्राया जातास्मौति तात्पर्य्यार्थः । अत्र द्वितीयचतुर्थपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १२ ॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy