________________
२० उदितरमपुष्टानामारुतैर्मे हतं मनः । उदितैरपि ते दूति ! मारुतैरपि दक्षिणैः ॥३१॥ मुराजितहियो यूनां तनुमध्यासते स्त्रियः । तनुमध्या: क्षरत्खेदसुराजितमुखेन्दवः ॥ ३२॥ इति व्यपेत यमकप्रभेदोऽप्येष दर्शितः । अव्यपेतव्यपेतात्मा विकल्पोऽप्यस्ति तद्यथा॥३३॥
हितीययोस्तृतीयचतुर्थयोच मित्रं व्यवहितमादिभागयमकम्
-- उदितैरिति। हे दूति ! अन्यपुष्टानां कोकिलानाम् पारुतैः समन्तात् झङ्कारैः, ते तव उदितैः कथितैः प्रियाक्रोशसूचकैर्वचनैरित्यर्थः, तथा दक्षिणैः मारुतैरपि मे मम मनः हत व्यथितम्। पत्र प्रथमवतीययोहितीयचतुर्थयोच मित्रं व्यवहितमादिभागयमकम् ॥ ३१ ॥ ' : सुरेति। तनु क्षौणं मध्वं यासां ताः, क्षरद्भिः गद्धिः
बेदैः सुराजिताः सुशोभिता मुखेन्दवः मुखचन्द्रा यासां ताहण्यः, तथा सुरया मद्यपानेन जिता झोर्लज्जा यासां तथा. भूताः, स्त्रियः कामिन्यः यूनां तरुणानां तनु शरीरम् अध्यासते। पत्र प्रथमचतुर्थयोईितीयवतीययोश्च मित्रं व्यवहितमादिभागयमकम् ॥ ३२ ॥ - इतीति। इति उत्तप्रकारण एषः व्यपेतानां व्यवहितानां समकानां प्रभेदः दर्शितः उदाइतः । पव्यपेतः अव्यवहितः व्यपेतः व्यवहितब आत्मा एस्य तादृशः उभयमित्र इत्यर्थः विकल्पः प्रमेदः अपि अस्ति, तन् यथेति उदाहरणार्थम् ॥३३॥