SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ द्वितीय: परिष्छेदः । १ पवनो दक्षिणः पर्ण जीर्ण हरति वीरुधाम् । स एवावनताङ्गीनां मानभङ्गाय कल्पते . चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः। .. चक्रवाकाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते ॥६॥ श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपतिभिः । भुवश्च सुकुमाराभिर्नवशाहलराजिभिः ॥१०॥ तत्र जातिगतदीपकमुदाहरति पवन इति। दक्षिणः पवनः वीरुधां लतानां जीणं पणं पत्रं हरति । स एव पवन: अवनताङ्गीनां मानभङ्गाय कल्पते प्रभवति तस्य अतीवोद्दीपकत्वात् इति भावः । अत्र पूर्वाईवाक्ये पवन इति जातिवाचक पदम् उत्तराईवाक्ये च स एवेति तच्छब्दपरामर्शात् पवन एव अवगम्यते अतः एकेम पवनेन पद्यस्थसर्वपादैरेव समन्वयात् जातिगतं दीपकमिदम् ॥१८॥ क्रियादीपकमाह चरन्तीति। दन्तिनः दिग्गजाः ते तव कुन्दभास: शुभ्राः गुणाश्च चतुरम्भोधिवेलोद्यानेषु तथा चक्रवाकाद्रिकुञ्जेषु चरन्ति, तव यशांसि विश्वव्यापकानौति भावः। अत्र एकेन चरन्तीति क्रियापदेन चकारबलयोगात् उभयाईयोः वाक्यान्वयोपपत्ते: क्रियादीपकमिदम् ॥ ८॥ गुणदीपकमाह श्यामला इति। दिशः प्रावषेण्याभिः वार्षिकोभिः जौमूतपङ्क्तिभिः मेघराजिभिः भुवश्च सुकुमाराभिः कोमलाभि: नवशाहलराजिभिः श्यामलाः। अत्र थामला इति गुणवाचकेन दिश इति पदस्य तथा चकारबलयोगात् भुव इति पदस्य समन्वयात् गुणदीपकमिदम् ॥१००
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy