________________
बाबादर्श विष्णुना विक्रमस्थेन दानवानां विभूतयः । कापि नीताः कुतोऽप्यासन्नानौता दैवतईयः १०१ इत्यादिदोपकान्यतान्येवं मध्यान्तयोरपि । वाक्ययोदर्शयिष्यामः कानिचित्तानि तद्यथा॥१०२॥ नत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः । बधन्ति च पयोदेषु दृशो हर्षाश्रुगर्भिणीः ॥१०३॥
द्रव्यदीपकमाह विष्णुनेति। विक्रमस्थेन त्रिविक्रमेण विष्णुना दानवाना बलिप्रभृतौनां विभूतयः क्वापि नौताः, तथा दैवतानाम् इन्द्रादीनाम् ऋद्धयः कुतोऽपि आनीता पासविति। अत्र विष्णुनेति एकव्यक्तिवाचितया द्रव्येण पूर्व वाक्ये अन्वितेऽपि पुनरुत्तरवाक्येन अन्वयात् द्रव्यरूपकमिदम्
इत्यमादिदोपकान्युका मध्यान्तयोरपि दोपकानि वक्तं प्रतिजानौते इतीति। इति उक्तप्रकारेण आदिदीपकानि पादिपदगतानि जात्यादिदीपकानि उक्तानि, एवं आदिदीपकवत् मध्यान्तयोरपि वाक्ययोः कानिचित् तानि दोपकानि दर्शयिष्यामः यथेति वक्ष्यमाणोदाहरणार्थम् ॥ १०२ ॥ ___ जातिगतमध्यदीपकमाह नृत्यन्तौति। कलापिनः मयूराः निचुलस्य स्थलवेतसस्य उत्सङ्गे अधोभागे नृत्यन्ति, गायन्ति केकाध्वनि कुर्वन्ति तथा पयोदेषु मेधेषु हर्षाश्रुगर्भिणीः पानन्दवाष्पवाहिनीः दृशः चक्षुषि बध्नन्ति । अत्र मध्यवाकागतेन कलापिन इति पदेन चकारबलात् वाक्यान्तरान्वयात् कलापिन इत्यस्य जातिवाचकवाच जातिगतमध्यदीपकमिदम् ॥ १०३ ॥