________________
.८३
द्वितीयः परिच्छेदः । मन्दो गन्धबहः क्षारो वहिरिन्दुश्च नायते। चर्चाचन्दनपातश्च शस्त्रपातः प्रवासिनाम् ॥१०४॥ जलं जलधरोद्गौणं कुलं गृहशिखण्डिनाम् । चलञ्च तड़ितां दाम बलं कुसुमधन्वनः ॥१०॥ त्वया नौलोत्पलं कर्ण स्मरेणास्त्रं शरासने। मयापि मरणे चेतस्त्रयमेतत् समं कृतम् ॥१०६ ।
क्रियागतमध्यदीपकमाह मन्द इति। मन्दः मृदुः गन्धवहः वायुः क्षार: तीक्ष्णः असह्य इत्यर्थः, इन्दुश्च वह्निः अग्निः चर्चा शैत्यक्रिया, तद्रूपः चन्दनपातः चन्दनानुलेपनच शस्त्रपात: जायते, प्रवासिनां विरहिणामिति सर्वत्र योज्यम्। अब मध्यवाक्यगतेन जायते इति क्रियापदेन सर्ववाक्यान्वयात् क्रियागतमध्यदीपकमिदम् । गुणद्रव्यगते मध्यदीपके यथायथमूहनीये इति ॥ १०४ ॥ ___जातिगतमन्तदीपकमाह जलमिति। जलधरोहोणं जलं वृष्टिरित्यर्थः, गृहशिखण्डिनां गृहमयूराणां कुलं तथा चलं चञ्चलं तड़ितां दाम एतत् वयं कुसुमधन्वन: कामस्त्र बलं सैन्यम् उद्दीपकत्वात् एतेषाम् इति भावः। अत्र बलमिति जातिवाचकेन अन्तवाक्यस्थेन पदेन सर्ववाक्यसमन्वयात् जातिगतान्तदीपकमिदम् ॥ १०५ ॥
क्रियागतान्तदीपकमाह त्वयेति। त्वया कर्णे नौलोत्पलं परेण कामेन शरासने अस्त्र, मयापि मरणे चेतः चित्तम् एतत् वयं समं युगपत् कृतम्। मानिनी प्रति नायकस्य उक्तिरियम्। अन्तवाक्यस्थेन कृतमिति क्रियापदेन सर्ववाकासम