SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ काव्यांदमें न पर्यन्तो विकल्पानां रूपकोपमयोरतः । दिद्मावं दर्शितं धीरैरनुक्तमनुमीयताम् ॥ १६ ॥ रूपकचक्रम् । जातिक्रियागुणद्रव्यवाचिनैकव वर्त्तिना । सर्बवाक्योपचारश्चेत् तमाहुर्दीपकं यथा ॥ १७ ॥ मेयगतस्य उत्कर्षः वैचित्रयातिशयः यत्र तत् तत्त्वापह्नवरूपकं तत्त्वस्य याथार्थ्यास्य मुखत्वादिकस्य अपवमूलकत्वादित्यर्थः । दर्पणकारस्तु इदमपतिमेवाह । यथा प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिरिति । रूपकलक्षणञ्च निरपह्नुतिरेवाह । यथा, रूपकं रूपितारोपो विषये निरपह्नवे इति ॥ ८४ ॥ ८५ ॥ रूपकं संहरति नेति । रूपकस्य उपमायाश्च विकल्पानां विशेषाणां पय्र्यन्तः शेषः न अस्तीति शेषः, अत: दिना प्रदर्शनमात्रं दर्शितं मया इति शेषः, अनुक्तम् अकथितं धीरैः धीमद्भिः अनुमीयताम् अनुमानेन ज्ञायताम् ॥ ८६ ॥ रूपकाणां चक्रं संहतिः इदमिति शेषः । अथ दीपकमाह जातीति । एकत्र प्रबन्धस्य यस्मिन् कस्मिंश्चित् श्रंशे आदावन्ते मध्ये वा इत्यर्थः । वर्त्तिना स्थितेन जातिवाचकेन क्रियावाचकेन गुणवाचकेन वा द्रव्यवाचकेन एकेन पदेन यदि सर्वस्य वाक्यस्य प्रबन्धघटकस्य उपचारः उपकारः अन्वयोपपत्तिरित्यर्थः । यदि भवति तं दौपकम् हः दीपस्य एकदेशस्थितस्य अपि देशान्तरीयपदार्थ प्रकाशनवत् 'अस्य सर्वोपकारकपदमूलकत्वात् इति भावः । दर्पणकारस्तु प्रस्तुतप्रस्तुतयोर्दोपकन्तु निगद्यते । श्रथ कारकमेकं स्वादनेकासु क्रियासु चेति लक्षणमाह ॥ ८७ ॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy