________________
हितीयः परिच्छेदः। भाग्यदोषात् ममैवेति तत्समाधानरूपकम् ॥२॥ मुखपङ्कजरङ्गेऽस्मिन् भूलतानर्तकी तव । लोलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥६॥ नैतन्मुखमिदं पद्मं न नेवे भ्रमराविमौ । एतानि केसराण्येव नैता दन्तार्चिषस्तव ॥६४॥ मुखादित्वं निवत्यै व पद्मादित्वेन रूपणात्। उद्भावितगुणोत्कर्षं तत्त्वापङ्गवरूपकम् ॥६५॥ कोपने ! ममैव भाग्यदोषात् ते मुखमेव इन्दुरपि मां निर्दयं निर्दहति तापयति। इति अत्र समाधानात् भाग्यदोषाअमेति खयं हेतुवादप्रदर्शनात् एतत् समाधानरूपकम् ॥ ८२ ॥ ___रूपकरूपकं लक्षयति मुखेति। अस्मिन् तव मुखमेव पङ्कजं तदेव रङ्गः नृत्यशाला तस्मिन् भूरेव लता सा एव नर्तकी लोलानृत्यं करोति एतत् रम्यम् अतिमनोहरं रूपकरूपकं रूपितस्यापि रूपणात्, तथाच प्रथमं मुखे पनजत्वारोपः तदनन्तरञ्च मुखपङ्कजे रङ्गत्वारोप: एवं ध्रुवि लतावारोपः तदनन्तरं लतायां नर्तकीत्वारोप इति। इदञ्च समावे एव बोध्यम्, असमासे तु एकस्मिन् बहूनामारोपे हेतुमति हेतुरूपकम् अहेतुके मालावयविरूपकमिति ॥ ३ ॥
तत्त्वापङ्गवरूपकं निरूपयति नेत्यादि। एतत् तव मुखं न पञ, न नेत्रेदमौ भ्रमरी, एतानि केसराणि किचल्काः, एता दन्तार्चिषः न। अत्र मुखादित्वं मुखत्वादिकं निवर्व प्रतिषिध्य एव पद्मादित्वेन पद्मवादित्वेन :रूपणात् मुखादिषु पनत्वादिभिरध्यासात् एतत् उद्भावितः व्यनित: गुणस्त्र उप