________________
२२०
काव्यादमें
न मन्दयावर्जितमान सामया नमन्दयावर्जितमानसात्मया ।
उरस्युपास्तौर्णपयोधरद्दयं
मया समालियत जीवितेश्वरः ॥ ५७ ॥
सभा सुराणामबला विभूषिता गुणैस्तवारोहि मृणालनिर्मलैः ।
वृन्दानि चारुतया शोभया उपयान्ति सङ्गच्छन्ते शोभां प्राप्नुवन्तीत्यर्थः । तथा वृन्दानिलेन सङ्घातवायुना अपोढ़: निरस्तः घनस्य नृत्यविशेषस्य घनं स्यात् कांस्यतालादि वाद्यमध्यनृत्ययोरिति मेदिनी आगमो येषां तादृशानां परित्यक्तनृत्यानाम् इत्यर्थः वर्षासु हंसानां मदराहित्यादिति भावः के जले लपतीति तथोक्तानां कलापिनां हंसानां च आरुतयः मधुरखराः अपयान्ति । वर्षावर्णनमिदम् । अत्र प्रथमचतुर्थी तथा featredit तुल्य इति समुद्रभेदः ॥ ५६ ॥
1
नेति । मन्दया मूढ़या, अवर्जिते त्यक्ते माने सात्मया संयनया यंत्रवत्या यत्नेन मानं रच्चन्त्या, तथा दयया वर्जितौ मानसम् आत्मा स्वभावश्च यस्याः तथाभूतया मया नमन् कृतापराधतया पादयोः पतन् जीवितेश्वरः उरसि वक्षसि उपस्तौर्णम् अर्पितं पयोधरद्दयं यस्मिन् तद् यथा तथा न समालियत नानिष्यत । नाहकं निराकृत्य गलितमानाया मानिन्या अनुतापोक्तिरियम् । अत्र प्रथमद्दितीयौ पादावभ्यस्तौ ॥ ५७ ॥
सभेति । हे राजन् ! तव मृणालनिर्मलैः मृणालवत् परिशुद्धेः गुणैः अबला बलासुररहिता इन्द्रेण निहतत्वात्