SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ तौर्यः परिदः। २१८ नरा जिता माननया समेत्य न राजिता माननयासमेत्य । विनाशिता वै भवताऽयनेन ... विनाऽशिता वैभवतायनेन ॥ ५५॥ . कलापिनां चारुतयोपयान्ति वृन्दानि लापोढ़घनागमानाम्। वृन्दानिलापोढ़धनागमानां .. . कलापिनां चाम्तयोऽपयान्ति ॥ ५६ ॥ तथा यत्नः क्रियतामिति मानिनी प्रति तत्सख्या उक्तिः । प्रव प्रथमळतोयौ हितोयचतुर्थी च तुल्याविति समुद्भेदः ॥ ५४ ॥ नरा इति। माननया सम्मानेन समेत्य सङ्गल्य स्थितेन इति अध्याहार्य, मानवतेत्यर्थः भवता अयनेन संग्रामगमनेन जिताः पराभूताः नरा: रिपव इत्यर्थः माननययोः समाननौत्योः आसं क्षेपम् अभावमित्यर्थः एत्य प्राप्य न राजिताः न शोभिताः। पलायमानानामेषा गतिरुक्ता, ये तु न तथा तेषां गतिमाह विनाशिता इति। तथा वैभवं विभुत्वं तायति विस्तारयति इति तथोक्तोन ताज पालनविस्तारयोरित्यस्मात् नन्दादित्वादनप्रत्ययः। भवता विनाशिता वै निहतास्तु रिपवः विना पक्षिणा एभ्रेण इत्यर्थः अशिता भक्षिताः । राजः स्तुतिरियम् । अत्र प्रथमहितीयौ तथा ढतीयचतुर्थी च तुल्यो इति समुद्भेदः ॥ ५५ ॥ कलापिनामिति। लापेन केकाध्वनिना जढ़ः सम्मानित: घनागमः वर्षाकालः यैः तादृशानां कलापिनां मयराणां
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy