SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ - काव्यादणे. अभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः । पादाभ्यासोऽप्यनेकात्मा व्यज्यते स निदर्शनैः ॥५३॥ नास्थेयःसत्वया वयः परमायतमानया। . नास्थेयः स त्वया वयः परमायतमानया ॥ ५४॥ इत्थं पादभागयमकानि दर्शयित्वा सम्प्रति समस्तपादगतयमकानि दर्शयितुमाह अर्धाभ्यास इति । अईस्य पादहयस्य अभ्यासः पुनरावृत्तिः समुद्रः स्यात् समुद्गशब्द न सम्पुटक उच्यते । स यथा भागद्दयात्मकः तथा अयं पादहयात्मक इति तथा व्यपदेशः । अस्य समुद्गस्य त्रयो भेदाः मता: ख्याताः । तथाच, प्रथमहितीयौ तृतीयचतुर्थी च पादौ तुल्यौ इत्येकः, प्रथमटतीयौ द्वितीयचतुर्थौ च तथा इति द्वितीयः तथा प्रथमचतुर्थों हितोयटतीयौ इति टतीयः । पादाभ्यासः अपि अनेकामा अनेकविधः तथाच प्रथमो हितोये तोये चतुर्थे च इति त्रयः। द्वितीयः टतीये चतुर्थे चेति हौ। टतीयचतुर्थे इत्येकः । पुनश्च प्रथमः हितोये टतीये च, द्वितीये चतुर्थे च, तथा टतीये चतुर्थे च इति षट् । मिलित्वा च एकादशविध इत्यर्थः स निदर्शनैः वक्ष्यमाणैरुदाहरणैः व्यज्यते व्यक्तीक्रियते ॥ ५३॥ - नेति। परमायातः अतिदीर्घः मानो यस्याः तादृश्यापि अस्थेयः न अतिस्थिरं सत्वं खभाष: व्यवसायश्च यस्याः तथाभूतया त्वया स वा पुरुषः न वयः न प्रत्याख्येयः। परम् आयतमानया यनवत्या सत्या आस्थेयः आदर्तव्यः तथा आवर्णः वशीभूतः कार्य: । तवायमुद्यमः न स्थिरतरः अतः प्रियपरित्यागे पश्चात्ताप एव फलं तस्मात् यथायं खवशे तिष्ठेत्
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy