SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ द्वतीयः परिच्छेदः । स भासुरालामबला विभूषिता विहारयन् निर्विश सम्पदः पुराम् ॥ ५८ ॥ कलङ्कमुक्तं तनुमद्ध्यनामिका स्तनदयौ च त्वदृते न हन्त्यतः । न याति भूतं गमने भवन्मुखे कलङ्कमुक्तं तनुमद्ध्यनामिका ॥ ५६ ॥ निहतत्वात् बलासुरोत्यातविहीना इत्यर्थः विभूषिता देवभोग्यद्रव्यजातैः विशेषेण सज्जिता सुराणां देवानां सभा भारोहि पारूढ़ा स त्वविभूषिताः विशेषेण अलङ्गताः अबलाः विहारयन् रमयन् सन् भासुराणां दीप्यमानानां समृद्धानाम् इत्यर्थः पुरा नगराणां सम्पदः निर्विश उपभुव । राजानं प्रति वैतालिकस्योक्तिरियम्। प्रथमटतीयौ अभ्यस्तापिति ___ कलमिति। कलं मधुरम् उक्तं वचनं विलासिनीनामिति अध्याहार्य तथा तनु क्षीणं मध्यं नमयतीति तथोक्ता स्तनहयो च क्वचित् मध्यशब्दस्य धकारविर्भावः । त्वदृते त्वां विना कं जनं न हन्ति न पौड़यतीति अपितु सर्वमेव इत्यर्थः, अतः कारणात् भवन्मुखे भवादृशे विषये गणने भवादृशां जितेन्द्रियाणां गणनायामित्यर्थः हि निश्चितम् अनामिका अङ्गुष्ठतचतुर्थो अङ्गुलिः कलङ्कमुक्तं निर्दोषं तनुमत् शरीरिभूतम् अपरं प्राणिनं न याति न गच्छति त्वां विना अन्यं न गणयति इत्यर्थः । कमपि महान्तं प्रत्युक्तिरियम् । अत प्रथमचतुर्थी पादावभ्यस्ताविति ॥ ५॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy