________________
२२२
काव्यादर्श
यशश्च ते दिक्षु रजश्च सैनिका वितन्वतेऽजोपम ! दंशिता युधा ।
वितन्वतेजोऽपमदं शितायुधा द्विषाञ्च कुर्वन्ति कुलं तरखिनः ॥ ६० ॥ बिभर्त्ति भूमेर्बलयं भुजेन ते भुजङ्गमोऽमा स्मरतो मदञ्चितम् ।
शृणुक्तमेकं खमवेत्य भूधरं भुजङ्गमो मास्म रतो मदञ्चितम् ॥ ६१ ॥
यश इति । हे अजोपम ! अजराजसदृश ! नारायणसम ! वा हरसम! अजा विष्णुहरच्छागा इत्यमरः । दंशिताः साहवन्तः शितानि तीक्ष्णानि श्रयुधानि येषां ते तथोक्ताः, तथा तरस्विनः महाबलाः ते सैनिकाः योद्धृपुरुषाः युधा संग्रामण दिक्षु यशश्च वितन्वते विस्तारयन्ति । तथा दिषां शत्रूषां कुलञ्च वितनु देहरहितम् अतेजः तेजोहीनं तथा अपमदं निर्मदं निरहङ्कारं वा कुर्वन्ति । विजिगीषुस्तुतिरियम् । अत्र द्वितीयतृतीयावभ्यस्ताविति ॥ ६० ॥
बिभर्तीति । हे राजन् ! भुजङ्गमो वासुकिः ते तव भुजेन अमा सह त्वदभुजसाहाय्येनेत्यर्थः भूमेर्बलयं भूमण्डलं बिभर्त्ति धत्ते, एतावता गर्वोन विधेय इत्याह स्मरत इति । स्मरतः पूर्वकृतं विजानत इत्यर्थः मत् मत्तः सकाशादित्यर्थः अतिं पूजितम् एकम् उक्त वचनं शृणु आकर्णय, स्वं भूधरं भुजम् अवेत्य ज्ञात्वा रतः प्रीतः सन् चितं प्रहृम् अत्यन्तमित्यर्थः