________________
१४.
काव्यादर्श निर्वत्यै च विकार्ये च हेतुत्वं तदपेक्षया। . प्राप्येतु कर्मणि प्रायः क्रियापजैव हेतुता ॥२४॥ हेतुनिर्वर्तनीयस्य दर्शितः शेषयोईयोः । सप्तमौ। तादृशस्य जनस्य इत्यर्थः अभावसाधनाय अलं समर्थः, अत्र अभावसाधको हेतुरिति भावः ॥ २३८ ॥
हेतुत्वस्य क्रियाकर्मोभयापेक्षिता, तत्र क्रियापेक्षित्वे उदाहृतं सम्प्रति कर्मापेक्षित्वमाह निर्वत्यै चेति। निवर्त्य च विकार्ये च कर्मणि तदपेक्षया हेतुत्वं तत्तत्कर्मापेक्षी हेतुरित्यर्थः, प्राप्ये तु कर्मणि प्रायः बाहुल्येन हेतुता क्रियापेक्षैव क्रियापेक्षी हेतुरित्यर्थः । तत्र निर्वत्यै पूर्वमसदेव क्रियया जन्यम् अथवा पूर्व सदेव क्रियया प्रकाश्यमानमिति विविधम । यथा, कटं करोति, पुत्रं प्रसूते इत्यादि। विकाS क्रियया रूपान्तरमापाद्यमानम्। यथा, काष्ठं दहति सुवर्णं कुण्डलं करोति इत्यादि। दहति भस्मीकरोतीति भस्मैव काष्ठस्य रूपान्तरं बोध्यम्। उक्तञ्च, यदसज्जायते पूर्व जन्मना यत् प्रकाशते। तनिवर्त्य विकार्यच्च कर्म इंधा व्यवस्थितम् । प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादिभस्मवत्। किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् इति। प्राप्यन्तु क्रियाव्याप्तमेव न तु विकत्यादिगुणान्तरितम् । तदुक्तं, क्रियाकतविशेषाणां सिद्धिर्यत्र न गम्यते। दर्शनादनुमानाद् वा तत् प्राप्यमिति कथ्यते इति । जोमरास्तु अनौप्सितमपि कर्मेच्छन्ति । यथा, दुःसंसर्ग परिहरतीत्यादि । अवापि क्रियापेक्षो हेतुरिति बोध्यम् ॥ २४० ॥
हेतुरिति। निर्वर्तनीयस्य कर्मण: हेतुः दर्शित: अय