________________
द्वितीयः परिच्छ ेदः ।
१३८
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ॥ २३६ ॥ प्रीत्य ुत्पादनयोग्यस्य रूपस्यावोपवृंहणम् । अलङ्कारतयोद्दिष्टं निवृत्तावपि तत्समम् ॥ २३७॥ चन्दनारण्य माधूय स्पृष्ट्रा मलयनिर्झरान् । पथिकानामभावाय पवनोऽयमुपस्थितः ॥ २३८॥ अभावसाधनायालमेवम्भूतो हि मारुतः । विरहज्वरसम्भूतमदनाग्न्यातुरे जने ॥ २३६ ॥
आधूताः प्रौढ़ाः परिणताः चन्दनद्रुमस्य पल्लवा येन तादृशः मलयमारुतः सर्वस्य प्रीतिम् उत्पादयति । अत्र मलयमारुतस्य प्रौत्युत्पादने कारकत्वम् आन्दोलितेत्यादिविशेषणवत्तया समधिकं वैचित्त्रप्रमावहति सहृदयानामिति । अत्र प्रीत्युत्पादनयोग्यस्य रूपस्य वैचित्राजनकतया कौर्त्तनम् अलङ्कारतया उद्दिष्टं कथितं तत् उपबृंहणं निवृत्तावपि निषेधेऽपि समं तुल्यम् । यथा, मुग्धे ! तव मुखामोदलोलुपो मधुपो भ्रमन् । कर्णिकाकमलं फुल्लमपि नाभिसरत्ययमिति । अत्र अभिसरणक्रियाया निषेधः ॥ २३६ ॥ २३७ ॥
पूर्वं भावसाधने उदाहरणं दर्शयित्वा इदानीम् अभावसाधनाय उदाहरति चन्दनेति । अयं पवनः चन्दनारस्यं चन्दनवनम् आधूय कम्पयित्वा तथा मलयनिर्झरान् स्पृष्ट्वा पथिकानाम् अभावाय नाशाय उपस्थितः तादृशस्य पवनस्य विरहिणामतौव दुःसहत्वादिति भावः ॥ २३८ ॥
अभावेति । एवम्भूतः उक्तगुणसमन्वितः मारुतः विरहज्वरेण सम्भूतः यः मदनाग्निः तेन आबुरे जने अत्र षष्ठयर्थे