________________
काव्यादर्भे
१३८
हेतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम् । कारकज्ञापको हेतू तौ चानेकविधौ यथा ॥ २३५॥ अयमान्दोलितप्रौढ़चन्दनद्रुमपल्लवः ।
हेतुसूक्ष्मलवाख्यानलङ्गारानुद्दिशति हेतुरिति । हेतु: सूक्ष्मः तथा लेशः लव इत्युद्देशवाक्येनोक्तः एते त्रयः वाचाम् उत्तमभूषणम् उत्कृष्टालङ्काराः एतेषामलङ्कारत्वमनङ्गीकुर्वतो भामहादीन् प्रति कटाक्षोक्तिरियम् । तत्र हेतू द्विविधौ कारकः ज्ञापकश्च हेतुत्वञ्च, सिषाधयिषितार्थसाधकत्वम् । उक्तञ्च, सिषाधयिषितार्थस्य हेतुर्भवति साधकः । कारको ज्ञापक इति द्विधा सोऽप्युपजायते । प्रवर्त्तते कारकाख्यः प्राक् पश्चात् कार्य्यजन्मतः । पूर्वः शेष इति ख्यातस्तयोरेव विशेष्यता । कार्य्यकारणभावाद् वा स्वभावाद् वा नियामकात् । अविनाभावनियमादविनाभावदर्शनात् । ज्ञापकस्य च भेदोक्तिर्वेद्या पूर्वोक्तिदर्शनात् इति । भोजराजेनाप्युक्तं यः प्रवृत्तिं निवृत्तिञ्च प्रयुक्तिञ्चान्तराविशन् । उदासीनोऽपि वा कुर्य्यात् कारकं तं प्रचक्षते । द्वितीया च तृतीया च चतुर्थी सप्तमी च यम् । क्रियानाविष्टमाचष्टे लक्षणं ज्ञापकश्च सः इति । तौ च कारकज्ञापकौ अनेकविधौ बहुप्रकारौ उदाहरणेषु ज्ञातव्यौ इति शेषः अस्मिंश्व हेत्वलङ्कारे मतान्तरोक्तस्य काव्यलिङ्गस्य कार्य्यकारणभावोक्तार्थान्तरन्यासस्य तथा अनुमानस्य अन्तर्भावात् न पृथगुक्तिरिति बोध्यम् । दर्पणकारस्तु अभेदेनाभिधा हेतुर्हेतोर्हेतुमता सहेति लक्षणमाह । स चास्मिन् मते अतिशयोक्तिरेवेति ध्येयम् ॥ २३५ ॥
•
कारकहेतुमुदाहरन्नाह अयमित्यादि अयम् आन्दोलिताः