________________
हितीयः परिच्छदः ।
न तथा लिम्पती लेपादन्यदव प्रतीयते ॥२३२॥ तदुपश्लेषणार्थोऽयं लिम्पतिर्धान्तकर्तृकः । अङ्गकर्मा च पुंसेवमुत्प्रेक्ष्यत इतोष्यताम् ॥२३३॥ मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥२३४॥
इति उत्प्रेक्षाचक्रम् ।
तत्राह यथेति। ते वक्त्रम् इन्दुरिव इत्यत्र यथा कान्तिः सौन्दर्यं साधारणधर्मतया प्रतोयते पत्र लिम्पती लेपात् अन्यत् किमपि तथा तहत् न प्रतीयते। तथाच, साधारणधर्माप्रयोगेऽपि यत्र सादृश्यस्य प्रसिद्धतया साधारणधर्मस्य स्फुटत्वं तत्रैव लुप्तोपमा, अत्र तु तमसः लेपनकर्तुश्च न तथात्वमिति काचिद् विप्रतिपत्तिरिति भावः ॥ २३२ ॥
उपसंहरति तदिति। तत् तस्मात् उपश्लेषणं व्यापनमेव अर्थो यस्य तथाभूतः ध्वान्तकर्तृकः तमःकर्तृकः तथा अङ्गकर्मा अयं लिम्पतिः लेपनक्रिया पुंसा कविनिबन्धनवना उत्प्रेक्ष्यते सम्भाव्यते इति दृष्थताम् इष्टत्वेन गृह्यताम् । तथाच, तमःकर्तृकमङ्गव्यापनम् उत्प्रेक्षाया विषयः लेपनञ्च विषयि, ततश्च प्रस्तुतस्तमोव्यापनरूपो विषयः अप्रस्तुततादृशलेपनरूपविषयित्वेन उत्प्रेक्ष्यते न तूपमानभूतेन तेन उपमीयते इति भाष्यम् ॥ २३३ ॥
इवशब्दस्य उत्प्रेक्षाया व्यञ्जकत्वमाह मन्ये इति। मन्ये इत्यादिभिः शब्दः उत्प्रेक्षा व्यज्यते, इवशब्दोऽपि तादृश उत्प्रेक्षाव्यञ्जक इत्यर्थः ॥ २३४ ॥