________________
काव्यादर्श
यो लिम्पत्यमुना तुल्यं तम इत्यपि शंसतः । अङ्गानीति न सम्बद्धं सोऽपि मृग्यः समो गुण:२३१ ययेन्दरिव ते वक्त्रमिति कान्तिः प्रतीयते।।। क्रियापदे व्यापाररूपे न्यग्भूतः विशेषणत्वात् तिरस्कृतः, तिङर्थस्य विशेषणत्वं पूर्वमुक्तम् । न हि विशेषणमुपमान भवति विशेषणस्य साध्यतया उपमानस्य च सिद्धतया सर्व सम्मतत्वादिति भावः । तथाहि, स्वक्रियाया लेपनरूपाया. साधने व्यग्रः व्यापूतः असौ कर्ता अन्यत् कार्यान्तरम् अपेक्षितुं द्रष्टुं साधयितुमित्यर्थः न अलं न समर्थः । अयं भाव एकस्याधीनो यथा अन्यस्य कार्य न कत्तुं शक्नोति तथा एकस्य विशेषणतया अधीनः कर्ता अन्यस्य उपमानरूपविशोषणतामाप्तुं न प्रभवतीति। उक्तञ्च दौधितिकारण, इसर विशेषणत्वेनोपस्थितस्यान्यन विशेषणत्वेनान्वयायोमादिलिन अतो नात्र कत्तुंरुपमानत्व सङ्गच्छत इति ॥ २३० ॥
तिर्थप्राधान्यवादिनैयायिकमतानुसारिणीमपि भापति खण्डयति य इति। यो लिम्पति, तमः अमुना तुल्यम्, पत्र यददःशब्दप्रयोग उपमानोपमेयत्वसूचकः, इत्यपि भंसतः कथयतः वादिनः मते इति शेषः, अङ्गानि इति कर्मपदं न न सम्बई न सङ्गतम् उपमेयतमःकर्तृकतदन्वययोग्यक्रियान्तराभावात् उपमेयांश अनन्वयाच्चेति। ननु अङ्गकर्मकलेपनकर्त तम इत्येवं शाब्दबोधे का क्षतिरिति चेत् तत्राह स इति। सः समः साधारणः गुणोऽपि मृग्यः अन्वेष्टव्यः अवश्यं वाथ इत्यर्थः तदप्रयोगे उपमाया असम्भवादिति भावः ॥२३१॥ . ननु साधारणधर्माप्रयोगे लुप्तोपमापि भवतीति चेन् ।