________________
हितीयः परिच्छेदः।
१६८
पसावुदयमारुढ़ः कान्तिमान् रतमण्डलः । । राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥३११॥
दुरधिरोहतनोविशालवंशोबसे: कतशिलीमुखसंग्रहस्य । यस्यानुपमुतगतेः परवारणस्य दामाम्बुसेकसुभगः सततं करोऽभूदित्यत्र प्रकरणेन प्रथमं प्रकृतः पुरुषः प्रतीयते, पश्चात् व्यञ्जनया हस्तौति । तत्र अर्थस्य अनेकत्वं कचिद् वस्तुतः, क्वचिदेकरूपत्वेऽपि सम्बन्धिभेदेन इति बोध्यम्। आद्यस्तावत् शब्दमेषः द्वितीयस्तु अर्थश्लेष इति विश्वनाथादयः । तस्य हैविध्यमाह तदिति। तत् वचः अभिवपदं शक्यतावच्छेदकस्य विभिनत्वेऽपि एकप्रकृतिप्रत्ययसमासादिघटितत्वेन अभिबानि पदानि यस्मिन् तत्, तथा भिनानाम् अनेकप्रकृतिप्रत्ययादिघटितत्वेन विलक्षणानां पदानां प्रायो बाहुल्यं यत्र तत्। तथाच अभिवपदवाको प्रभङ्गलेश: भिनपदवाक्ये सभङ्गश्लेष इति विविधत्व शेषस्तु समधिकचमत्कारितया कविभिर्बाहुल्येन प्रयुज्यत इति प्रायपदाभिप्रायः । विश्वनाथस्तु, लिष्टैः पदैरनेकार्थाभिधाने शेष इष्यते। वर्गप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि। मेषाद विभक्तिवचनभाषाणामष्टधा च सः । तत्र वर्णश्लेषो यथा, प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता। अवलम्बनाय दिनभर्तुर भूब पतिथतः करसहस्रमपीत्यत्र विधाविति विधिविधुशब्दयोरिकारोकारयोर्वर्णयोः श्रेष इत्याधष्टधा भेदमाह ॥ ३१ ॥ ___ तवाभिवपदमुदाहरति असाविति। उदयमुबतिम् उदयाचलञ्च प्रारूढ़ः कान्तिमान् कमनीयमूर्तिः किरणमाली च. रतामण्डल: अनुरक्तप्रक्षतिः खोहितविम्बन्ध राजा नृपः