________________
द्वतीयः परिच्छदः।
भवविधानामसमाहितानां भवद्विधानामसमाहितानाम् ॥ ६५ ॥ सन्नाहितोमानमराज सेन ! सन्नाहितोऽमानम ! राजसै न । सन्नाहितो मानम ! राजसैन सन्ना हितोऽमानमराजसैन ! ॥ ६६ ।।
चित्तानाम् अव्यवहितानामित्यर्थः तथा असमा असदृशा अहिताः शत्रवः येषाम् अधिकशत्रूणामित्यर्थः भवद्दिधानां मिथ्या भवत् असत्यं भवत् विधानं कायं यस्यास्तां कार्येषु अपरिणतामित्यर्थः । तथा असमः विषमः यः अहिः सर्पः तस्यैव तानो विस्तारो यस्याः तादृशीं अतिवक्रदारुणामित्यर्थः, पुनश्च भवे उत्पत्तौ श्रवणमात्र एवेत्यर्थः बिधा विविधः अनः प्राणः अर्थरूपः यस्याः तथाभूताम् अर्थानामेव वाचा प्राणत्वात् इति भावः, वाचं न श्रद्धधे न विखसिमि। शठनायकं प्रति नायिकाया उक्तिरियम्। अत्र दितीय-तीयचतुर्थपादानामभ्यास: ६५ ॥
सविति। हे सन् ! साधो! हे माहितोमानमराजसेन ! न नमन्तीति अनमा: ब्राह्मणाः पचादित्वादन् । अनमानां राजा अनमराजश्चन्द्रः, उमा च अनमराजश्च तौ उमानमराजौ माहितौ स्वाङ्गतौ उमानमराजी येन सः, माहितोमानमराजः शिवः तेन सेनः इनः स्वामी तेन सह वर्तमानः सेश्वर इत्यर्थः तत्सम्बुद्धौ शैव इत्यर्थः, तथा हे अमानम ! प्रमाना अपरिमाणा मा लमौर्यस्य तत्सम्बुद्धौ, पुनश्च हे राजसेन !