________________
कांव्यादर्थे
यामकाम धियाऽख या मया मथितैव सां ॥ ३६ ॥ इति पादादियमकविकल्पस्येदृशी गतिः । एवमेव विकल्पानि यमकानीतराख्यपि ॥ ३७ ॥ म प्रपचभयाद् भेदाः का स्नेनाख्यातुमीहिताः । दुष्कराभिमतो ये तु वयन्त तेऽत्र केचन ॥३८॥ स्थिरायते ! यतेन्द्रियो न हीयते यतेर्भवान् ।
वथ
'दैर्घ्यं यस्याः तादृश्या त्रियामां रजनीं प्राहुस्त्यक्ताद्यन्तचतुष्टयमिति वचनात् निशा रजन्या मरणं याम मृत्युं प्राप्नुवाम मिति शेषः निशायां सातिशयोद्दोपकत्वादिरहस्येति भावः किन्तु धिया मनसा यां कान्ताम् अयाम अगच्छाम यस्या'विन्तया कालमयापयामं इत्यर्थः सा खर्चा या प्रखत्ति प्राणव्यथाम् श्रायाति प्राप्नोतीति तथाभूता सती प्राङ्पूर्वकात् याधातोः क्विपि रूपम् । मया मथितैव नाशितैव, मम तु मरणमस्तु किन्तु सा तपखिनो महियोगेन म्रियत एवेति भावः । विरहिणः स्वावस्थानुभवेन विलापोक्तिरियम् । अत्र 'सर्वेषु पदेषु मिश्रमव्यवहितं व्यवहितच्चादिभागयमकम् ॥१६॥
इतीति । पादादिस्ययमकानां विकल्पस्य भेदस्य इति उत्तरूपा ईदृश एवम्प्रकारा गतिः नियमः । इतराणि अपि यमकानि एवं विकल्पानि भेद्यानि ॥ ३७ ॥
**
नैति । प्रपचभयात् विस्तारभयात् कार्त्स्नेन साकल्येन भेदाः प्राख्यातुं न ईहिताः न चेष्टिताः, ये तु भेदा दुष्करत्वेन अभिमताः ख्याताः, अत्र ते केचन वर्ण्यन्ते उदाह्रियन्ते ॥ ३८ ॥
स्थिरायत इति । स्थिरा प्रायतिरुत्तरकालो यस्य तत्सम्बुद्दी