________________
वतीयः परिच्छेदः।
२६३
पभुनारायणाम्भोनयोनयः पालयन्तु वः ॥१४॥ यनः सम्बन्धविज्ञानहेतुकोऽपि कृतो यदि । क्रमलङ्घनमप्याहुः सूरयो नैव दूषणम् ॥ १४६ ॥ बन्धुत्यागस्तनुत्यागो देशत्याग इति विषु । माद्यन्तावायतलेशी मध्यमः क्षणिकज्वरः॥१४७॥ शब्दहीनमनालक्ष्यलक्ष्यलक्षणपद्धतिः । निर्माणं सृष्टिः संहारः ध्वंस: तेषां हेतवः कर्तारः अमौ शम्भु. मारायणाम्भोजयोनयः शिवविष्णुब्रह्माण: व: युस्मान् पालयन्तु। अत्र प्रथमोद्दिष्टानां स्थितिर्निमाणसंहाराणां यथाक्रममन्वये कर्तव्ये नारायणाम्भोजयोनिसम्भव इति वक्तुमु. चितं, परन्तु तहिपरौतमुक्तमिति अपक्रमता ॥ १४५ ॥
अस्थादोषत्वमपि कचिदित्याह यत्न इति । यदि सम्बन्धस्य अन्वयस्य विज्ञानं विशेषेणावबोध एव हेतुर्यस्य तादृशः यत्रः विशिष्ट सम्बन्धबोधायैव तादृशक्रमलङ्घनप्रयास इत्यर्थः कृतः कविनेति शेषः, तदा सूरयः विहांस: क्रमलानमपि दूषणं दोषावहं नैव पाहुः ॥ १४६ ॥
अदोषत्वं दर्शयति बन्धुत्याग इति। बन्धुत्यागः तनुत्यागः देशत्यागः इति विषु विषयेषु मध्ये पावन्तौ बन्धुत्यागदेशखागो पायताः दीर्घाः के शाः ययोः तो, मध्यमस्तनुत्यागस्तु क्षणिकज्वरः क्षणमात्र शकर इत्यर्थः। अन्न यथाक्रममुद्दिटेऽपि बन्धुत्यागादिषु आयतन शावित्यनेन आद्यन्तयोरेव अम्बययोगात् मध्यमलङ्घनं न दोषाय इत्यवधेयम् ॥ १४७ ॥
शब्दहीनं निरूपयति शब्दहीनमिति । अनावक्ष्या अटण्या लक्ष्यस्य उदाहरणस्य तथा लक्षणस्य नियामकस्य सूत्रादेः