________________
२६४
काव्यादरों
पदाप्रयोगोऽशिष्टेष्टः शिष्टेष्टस्तु न दुष्यति ॥ १४८॥ अवते भवते बाहुर्महीमणवशक्करीम्। महाराजनजिज्ञासा, नास्तीत्यासां गिरां रसः १४६ दक्षिणानेरुपसरन् मारुतश्चूतपादपान् । कुरुते ललिताधूतप्रबालागुरशोभिनः ॥ १५० ॥ पद्धतिः नियमः यत्र तादृशः अगणितानुशासन इत्यर्थः, पदानां पदयोः पदस्य वा प्रयागः अशिष्टानाम् अज्ञानाम् इष्टः अनवबोधविजृम्भित इत्यर्थः, अतएव शब्दहीनं शब्देन अनुशासनशास्त्रेण होनं तदाख्यदोषवानित्यर्थः पदप्रयोगस्य कताभिहितत्वात् द्रव्यपरत्वमिति प्रयुक्त पदमिति वक्तव्यं तेन च शब्दहीनमित्यस्य अन्वयः कर्त्तव्य इत्यवधेयम्। शिष्टेष्टस्तु शिष्टैः साधुभिर्बहुभिरिष्टः व्यवहृतस्तु न दुष्थति न दोषमावहति ॥ १४८॥ ___ शब्दहौनमुदाहरति अवते इति। हे महाराजन् ! भवते भवतः बहुः अर्णवः शक्करी मेखला यस्याः तो ससागरामित्यर्थः, शक्करी कन्दसो भेदे नदीमेखलयोरपौति मेदिनी। महीम् अवते पालयति। अत्र अजिज्ञासा संशयाभावात् जिज्ञासा न विद्यते सत्यमेवैतदित्यर्थः, आसां गिरां वाचां रसः माधु-- नुगुण: आखादः नास्ति। अत्र अवते इत्यात्मनेपदं, भवते इति षष्ठीस्थाने चतुर्थी, महाराजेत्यत्र महाराजनिति कर्मधारयः अनुशासनविरुद्धः अशिष्टैरुपन्यस्तः ॥ १४८ ॥ ___ अदूषितं शब्दहीमं दर्शयति दक्षिणाद्रेरित्यादि। दक्षिहादेः मलयपर्वतस्य उपसरन् मलयाचलं गच्छन् मारुतः चूतपादपान् तत्रत्यान् अाम्रतरून् ललितं सुन्दरं यथा तथा