________________
तृतीयः परिच्छ ेदः ।
इत्यादिशास्वमाहात्म्यदर्शनालसचेतसाम् । अपभाषणवद् भाति न च सौभाग्यमुज्झति ॥ १५१ श्लोकेषु नियतस्थानं पदच्छेदं यतिं विदुः । तदपेतं यतिभ्रष्टं श्रवणोद्देजनं यथा ॥ १५२ ॥
२६५
आधूताः ये प्रबालाः नवपल्लवाः अङ्कुराच तैः शोभिनः कुरुते इत्यन्वयः । इत्यादि वाक्य शास्त्रस्य अनुशासनस्य यत् माहात्मंत्र तस्य दर्शने अलसं चेतो येषां तथाभूतानां विदुषाम् इत्यर्थः अपभाषणवत् अपशब्दवत् भाति न तु अपशब्दरूपेण इत्यर्थः । अयं भावः, कर्मणि द्वितीयेति अनुशासनबलेन दक्षिणाद्रेरित्यत्र द्वितीया भवितुमर्हत्येव परं तां विहाय सम्बन्धविवचया षष्ठीविधानेऽपि न दोषः । उक्तञ्च अविवचिते कर्मादौ सम्बन्धविवचया षष्ठीति । द्वितीयाया प्रभावेऽपि श्रोतॄणां न वैरस्योदय इत्याह न चेति । सौभाग्यच्च लालित्यच्च न च उज्झति न त्यजति, तथाच ईदृशस्थले श्रोविरागे दोष एवेति भावः । मलयपर्वतीयकम्पिततत्त्रत्यचूततरोर्वायोर्वर्णनमिदम् । दचिणाद्र रुपसर्पनित्यस्य दक्षिणाद्रेः मलयाचलात् उपसर्पन् आगच्छनित्यर्थकत्वेन कश्चित् पर्यनुयोग इति बोध्यम् ॥ १५० ॥ १५१ ॥
यतिं तदुद्भ्भ्रष्टच्च निरूपयति श्लोकेष्विति । श्लोकेषु पद्येषु न तु गद्येषु नियतं छन्दःशास्त्रज्ञैः निरूपितं स्थानं यस्य तादृशं पदस्य छेदं विरतिं यतिं विदुः जानन्ति बुधा इति शेषः, पदान्ते जिह्वेष्टविश्रामस्थानं यतिरिति निष्कर्षः । उक्तञ्च यतिर्जिष्टविश्रामस्थानं कविभिरुच्यते । तदपेतं तस्याः विच्युतं यतिभ्रष्ट श्रवणयोः श्रोत्त्रयोः उद्देजनम् असुखजनकम् इत्यर्थः ॥ १५२ ॥
२३
1