________________
काव्यादर्भ
स्त्रीणां सङ्गीतविधिमयमादित्यवंश्यो नरेन्द्रः प्रश्यत्यक्लिष्टरसमिह शिष्टैरमेत्यादि दुष्टम् । कार्याकार्याण्ययमविकलान्यागमेनैव पश्यन् वण्यामुौं वहति नृप दूत्यस्ति चैवं प्रयोगः ॥१५३ लुप्ते पदान्ते शिष्टस्य पदवं निश्चितं यथा। तथा सन्धिविकारान्तं पदमेवेति वर्ण्यते ॥ १५४॥
___ स्त्रोणामिति। अयम् आदित्यवंशयः सूर्यवशीयः नरेन्द्रः शिष्टैः सननैः अमा सह अक्लिष्टाः पूर्णा रसाः आखादाः यस्य तादृशं स्त्रीणां सङ्गीतविधि पश्यति। इत्यादि एवमादिकं पद्यं दुष्ट यतिभ्रष्टवादनादरणीयमित्यर्थः। तथाहि, सप्तदशावरे मन्दाक्रान्तावृत्ते चतुर्थषष्ठसप्रमेषु यतिर्निवेशनौया। तथाचोक्तां, मन्दाक्रान्ताम्बुधिरसनसमोभनौ तौ गयुग्ममिति । प्रत्र तु चतुर्थादिवर्णानां प्रदान्तर्गतत्वात् यतिभ्रष्टता। अस्य च क्वचिददोषत्वमाह कार्येति । अयं नृपः प्रागमेनैव नीतिशास्त्रेणैव न तु खेच्छाचारितयेति भावः, कायाकार्याणि कर्तव्याकर्तव्याणि अविकलानि अव्याहतानि पश्यन् वश्यां वशतामापबाम् उर्वी बहति इति एवं प्रयोगच अस्ति अदुष्टवेन वर्त्तते इत्यर्थः पदमध्ये स्वरसन्धिश्रयणे यतिभ्रंशस्य अदोप्रखकौर्तनात् । यदुक्त, पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च । पुनस्तत्रैवासौ स्वरविहितसन्धिः श्रयति ताम्। यथा कृष्णः पुष्णात्यतुलमहिमा मां करुणयेति ॥ १५३॥ .. । उक्त विधं यतिभ्रंशस्य दोषत्वमदोषत्वञ्च प्रतिपादयति लुप्ते इति। लुप्ते खुशविभक्तिके पदान्ते शिष्टस्य अवशिष्टस्य