SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छ ेदः । २७१ कलिङ्गवनसम्भूता मृगप्राया मतङ्गजाः ॥ १६५ ॥ चोलाः कालागुरुश्यामकावेरीतीरभूमयः । इति देशविरोधिन्या वाचः प्रस्थानमीदृशम् ॥ १६६॥ पद्मिनी नक्तमुनिद्रा स्फुटत्यहि कुमुद्दती । मधुरुत्फुल्लनिचुलो निदाघी मेघदुर्दिनः ॥ १६७ ॥ देशविरोधमुदाहरति कर्पूरेति । मलयानिलः कर्पूरपादपानाम् श्रमर्शेन सम्पर्केण सुरभिः सुगन्धिः, तथा कलिङ्गवनसम्भूता मतङ्गजा हस्तिनः मृगप्रायाः मृगवत् प्रतिक्षुद्रा इत्यर्थः अत्र मलयाद्रौ कर्पूरपादपानां नोत्पत्तिः, चौनादिदेशे एव तदुत्पत्तिरिति तथा कलिङ्गवने मतङ्गजानां सम्भवो न प्रसिद्ध इत्युभयत्र मलयपर्वतः तथा कलिङ्गवनरूपो देशविरोधः ॥ १६५ ॥ 1 चोला इति । चोला: कर्णाटान्तर्गतदेशभेदा: कालागुरुभिः श्यामाः कावेरीनद्याः तौरभूमयः येषु तथेोक्ताः । अत्र कावेरीतीरे कालागुरुवो न जायन्ते इति राष्ट्ररूपो देशविरोधः । देशविरोधिन्याः वाचः इति ईदृशम् उक्तरूपं प्रस्थानं नियम इत्यर्थः ॥ १६६ ॥ कालविरोधं दर्शयति । पद्मिनी नक्तं रात्रौ उन्निद्रा विकसिता इति दिवस एव पद्मिन्या विकासस्य प्रसिद्धेः रात्त्राविति कालविरोधः । कुमुद्दतो अति स्फुटति इति रात्रावेव कुसुदिन्या विकासस्य प्रसिद्धेः अहि इति कालविरोधः । मधुः वसन्तः उत्फुल्लाः निचुला यत्र तथेोक्तः, अत्र निचुलानां प्रावृष्य व विकासस्य प्रसिद्धेः मधुरिति कालविरोधः निदाघः ग्रोमः मेघेन दुर्दिनं यत्र तथेोक्तः अत्र वर्षास्वेव दुर्दिनत्व
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy