SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २७२ काव्यादरों श्रव्यहंसगिरो वर्षाः शरदो मत्तवहिणः । हेमन्तो निर्मलादित्यः शिशिरः श्लाघ्यचन्दनः ॥१६८ इति कालविरोधस्य दर्शिता गतिरीहशी। मार्गः कलाविरोधस्य मनागुद्दिश्यते यथा ॥ १६६ ॥ वीरशृङ्गारयोर्भावौ स्थायिनौ क्रोधविस्मयौ। पूर्णसप्तखरः सोऽयं भिन्नमार्गः प्रवर्तते ॥ १७ ॥ प्रसिद्धः निदाघ इति कालविरोधः । निदाघेऽपि कदाचित दुर्दिनवं सम्भवति वर्णितच अकालदुर्दिनं मृच्छकटिकादौ इति शेषोक्तं चिन्त्यम् ॥ १६७ ॥ .. - वर्षाः अव्या हंसानां गिरः यासु ताः, अव शरत्खेव हंसानां मधुरनादस्य प्रसिद्दे: वर्षा इति कालविरोधः। शरदः मत्ता वहिण: यासु ता: पत्र वर्षाखेव मयूराणां मत्ततायाः प्रसिद्धः शरद इति कालविरोधः । हेमन्त: निर्मल: श्रादित्यो यत्र तथाभूतः, प्रत हेमन्ते आदित्यस्य हिमाहतत्वात् निर्मल त्वम् अप्रसिद्धम् इति कालविरोधः, तथा शिशिरः शौत : नाघ्यम् आदरणीयं चन्दनं यस्मिन् सः अत्र चन्दनस्य शैत्यात् शिशिरे तस्य श्लाघ्य त्वम् अप्रसिद्धम् इति च कालविरोधः ॥ १६७ ॥ १६८॥ . कालविरोधमुपसंहस्य कलाविरोधं दर्शयितुमाह इतीति । इति ईदृशी उत्तप्रकारा कालविरोधस्य गतिः नियमः दर्शिता, इदानीं कलाविरोधस्य मार्ग: नियमः मनाक अल्पं यथा तथा उद्दिश्यते प्रदर्श्यते यथेति उदाहरणार्थम् ॥ १६८ ॥ वौरेति। वीरशृङ्गारयोः रसयोः क्रोधविस्मयो स्थायिनी भावी विरुद्धाविति शेषः तथाहि वीरे उत्साहः, शृङ्गारे रतिः
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy