SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ टतीयः परिच्छेदः। २०३ इत्यं कलाचतुःषष्टिविरोधः साधु नीयताम् । तस्याः कलापरिच्छेदे रूपमाविर्भविष्यति॥१७१ ॥ स्थायिभावत्वेन कथ्यते, क्रोध: रौद्ररसस्य विस्मयः अद्भुतरसस्य स्थायित्वेन निर्दिष्टौ तदेवं स्थिते तहिरोधो दोष एवेति भावः । स्थायिभावश्च दर्पणकारेणोक्तः, यथाः, अविरुडा विरुद्धा वा यं तिरोधातुमक्षमाः। आस्वादाङ्गुरकन्दोऽसौ भावः स्थायौति कौवं ते इति रसावस्थः परं भावः स्थायितां प्रतिपद्यते इति च । क्रोधविस्मयौ च तेनैवोक्तो यथा प्रतिकूलेषु तैपणास्य अवबोधः क्रोध इष्यते । तथा विविधेषु पदार्थेषु लोकसौमातिवर्त्तिषु। विस्फारश्चेतसो यस्तु स विस्मय उदाहत इति, रसविवेकस्य भरतादिभिः नाट्यशास्त्र एव कृतत्वात् नाट्यरूपकलाविरोधोऽयम् इति बोध्यम्। गौतरूपकलाविरोधमाह पूणेति पूर्णाः सम्यक् प्रयुक्ताः सप्तस्वराः निषादादयः यत्र तथोत्यः सङ्गीतविधिरिति शेषः निषादर्षभगान्धार षड्जमध्यमधैवताः। पञ्चमवेत्यमी सप्त तन्त्रीकण्ठोस्थिता इत्यमरः। भित्रमार्ग: भिवः तत्तकालनिषिद्धखरासम्बलित: मार्गः प्रयोगनियमः यस्थ तादृशः सन् प्रवर्त्तते प्रचलति अतस्तदैपरीत्यं दोष एवेति फलितार्थः उक्तश्च भरतेन प्रभात, सुरतो निन्द्यः ऋषभः पञ्चमोऽपि च। पञ्चमस्य विशेषोऽयं कथितः पूर्वसूरिभिः । प्रगे प्रगौतो जनयेद्दर्शनस्य विपर्ययम् इति ॥ १७० ॥ इस्थमिति। इत्थम् अनेन प्रकारेण कलानां चतुःषष्टिः तस्याः विरोधः साधु यथा तथा नीयतां यथा नाट्यगीतरूपयोः कलयोर्विरोध: प्रदर्शितः तथा तत्तदुदाहरणेषु अन्यासामपि कलानां विरोधः दृश्यतामित्यर्थः, कलापरिच्छेदे तदाख्यग्रन्ये तस्याः कलायाः रूपम् पाविर्भविष्यति प्रकटिष्यति, अनन्तरं
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy