________________
२७४
काव्याद” भाधूतकेशरी हस्तौ तीक्षागृङ्गस्तुरङ्गमः । गुरुसारोऽयमेरण्डी निःसारः खदिरदुमः ॥ १७ ॥ इति लौकिक एवायं विरोधः सर्वमर्हितः । विरोधो हेतुविद्यासु न्यायाख्यासु निदर्श्यते ॥१७३ सत्यमेवाह सुगतः संस्कारानविनश्वरान्। तथाहि सा चकोराची स्थितवाद्यापि मे हृदि१७४
कलापरिच्छेदं नाम ग्रन्थं करिष्यामि सत्रैव तासां विशेषी द्रष्टव्य इति भावः ॥ १७१।।
लोकविरुहतां दर्शयति प्राधूतेति । अयं हस्सी आधूताः केशरा जटाः यस्य तथोक्तः, तुरङ्गमः अखः तीक्ष्ण शृङ्गे यस्थ तादृशः, एरण्डः तदाख्यवक्षः गुरुः सारो यस्य तथाभूतः, खदिरद्रुमः नास्ति सारो यस्य तादृक् हस्तिन: संकेशरत्वं तुरङ्गमस्थ तीक्ष्णशृङ्गत्वम् एरण्डस्य सारवत्वं तथा खदिरतरोः निःसारत्वं लोकविरुधम् । अत्र पूर्वाई चरयोरुत्तराई अचरयोरित्यवगन्तव्यम् ॥ १७२ ॥
इतीति। इति उक्तरूपः लौकिक: लोकप्रसिद्ध एव अयं . विरोधः सर्वैः विहद्भिः गर्हितः निन्दितः, तथा च देशादिविरोधापेक्षया लोकविरुद्धोपन्यासः प्रयोक्तुनितरां हास्यायेति भावः । सम्प्रति न्यायाख्याषु न्यायनानौषु हेतुविद्यासु विरोधः निदर्श्यते उदाङ्गियते ॥ १७३ ॥ __ सौगतदर्शनरूपन्यायविरोधं दर्शयति। सत्यमिति सुगतः बुद्धः संस्कारान् ज्ञानविशेषान्. अविनश्वरान् चिरस्थायिनः सत्यमेव आह, तथाहि तमेवार्थं जानीहि सा पूर्वानुभूता