SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः । कापिलेरसदभूतिः स्थान एवोपवर्ण्यते । असतामेव दृश्यन्ते यस्मादस्माभिरुङ्गवाः ॥ १७५ ॥ गतिर्व्यायविरोधस्य सैषा सर्वत्र दृश्यते । अथागमविरोधस्य प्रस्थानमुपदिश्यते ॥ १७६ ॥ अनाहिताग्नयोऽप्येते जातपुचा वितन्वते । विप्रा वैश्वानरौमिष्टिमक्लिष्टाचारभूषणाः ॥ १७७॥ २७५ 2 चकोराची अद्यापि मे हृदि स्थितैव स्मरणविषयी भवतीत्यर्थः स्मृतिं प्रति संस्कारस्य हेतुत्वात् तस्य चाविनश्वरत्वात् चेति भावः । पदार्थमात्रस्य चणभङ्गुरत्वमिति वादिनान्तु वेषां सौगतानां मतविरुद्धमेतदिति हेतुविद्याविरोधः ॥१७४॥ सांख्यदर्शनरूपन्यायविरोधं दर्शयति कापिलैरिति । कापिलैः कपिलमतानुसारिभिः सांख्यविह्निः असदुद्भूति: असतामनित्यानां दुष्टानाञ्च, उद्भूतिः उद्भवः स्थान एव युक्तमेव उपवर्णते, यस्मात् अस्माभिः असतामेव दुष्टानामेव उद्भवा दृश्यन्ते प्रायेण दुर्जना एव जायन्ते न तु साधव इति भावः । श्रयं भाव: कापिलानुसारिणः सतः सदेव जायते नत्वसदिति मन्यन्त े तथाचोक्तम् असदकरणादुपादानग्रहणात् सर्वसम्भवा· भावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्य्यमिति तस्मादत्र असदुद्भूतिदर्शनं सांख्यविरुद्धमिति निष्कर्षः ॥ १७५ ॥ न्यायविरोधमुपसंहरति गतौति । सा एषा एवंप्रकारा न्यायविरोधस्य गतिः सर्वत्र वैशेषिकादिष्वपि दृश्यते अथ इदानीम् आगमविरोधस्य प्रस्थानं गतिः उपदिश्यते ॥ १७६ ॥ श्रुतिविरोधं दर्शयति। अनेति । एते अक्लिष्टाचारभूषणाः
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy