________________
द्वितीयः परिच्छेदः ।
इत्यनङ्गजयायोगबुद्धिर्हेतुबलादिह । प्रवृत्तैव यदाक्षिप्ता वृत्ताक्षेपः स ईदृशः ॥ १२२ ॥ कुतः कुवलयं कर्णे करोषि कलभाषिणि । । किमपाङ्गमपर्य्याप्तमस्मिन् कर्मणि मन्यसे ? १२३ स वर्त्तमानाक्षेपोऽयं कुर्वत्येवासितोत्पलम् । कर्णे काचित् प्रियेणैवं चाटुकारेण रुध्यते ॥ १२४॥ असम्भाव्यम् अविश्वास्यमित्यर्थः तथाच विजेतुस्तावदनङ्गत्व वाणानाञ्च पञ्चसंख्यता तेषाञ्च पुष्पमयत्वं न तु दृढ़त्व जेतव्यञ्च प्रकाण्डपदार्थो विश्वमिति विजयोऽश्रय एवेति भावः । अथवा वस्तूनां पदार्थानां शक्तयः विचित्रा: अचिन्त्यस्वरूपाः, बस्तुशक्त्या सर्वमेव सम्भाव्यते इति तत्त्वम् । इत्यत्र प्रवृत्ता जाता अनङ्गस्य विश्वजयासम्भाव्यत्वबुद्धिः हेतुबलात् वस्तुशक्तेः यत् आक्षिप्ता प्रतिषिा, अतः ईदृशः एष इत्यर्थः सः प्रसिद्धः वृत्ताक्षेपः वृत्तस्य अतीतस्य सञ्जातस्य इत्यर्थः असम्भवबुद्धिरूपस्य आक्षेप इति ॥ १२१ ॥ १२२ ॥
1
वर्त्तमानाक्षेपमुदाहरति कुत इत्यादि । हे कलभाषिणि । कर्णे कुवलयं नौलोत्पलं करोषि धारयसि कुतः कस्मात्, अस्मिन् कर्मणि कर्णशोभाकर्मणि अपाङ्ग किम् अपर्याप्तम् अक्षमं मन्यसे ? अपाङ्गनैव कर्णशोभासम्पादनात् कुवलयधारणं व्यर्थमिति भावः । सः अयं वर्त्तमानाक्षेपः, यतः असितोत्पलं नीलोत्पलं कर्णे कुर्वतौ एव न तु कृतवती वा करिष्यन्ती काचित् नायिका चाटुकारेण प्रियेण एवं रुध्यते प्रतिषिध्यते । अतोऽत्न वत्र्त्तमानस्य असितोत्पलधारणस्य आक्षेपात् वर्त्तमानाक्षेप इति भावः ॥ १२३ ॥ १२४ ॥
ہے