SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ काव्यादर्थे विहरत्यप्सरोभिस्ते रिपुवर्गों दिवं गतः ॥ ११६ ॥ इत्यावृत्तिगणः । έτ प्रतिषेधोक्तिराक्षेप स्वैकाल्यापेक्षया विधा । अथास्य पुनराक्षेप्यभेदानन्त्यादनन्तता ॥ १२०॥ अनङ्गः पञ्चभिः पुष्पैर्विश्व' व्यजयतेषुभिः । इत्यसम्भाव्यमथवा विचिता वस्तुशक्तयः ॥ १२१ ॥ अवरोधनैः अन्तःपुरिकाभिः विहरति, ते तव रिपुवर्गः दिवं गतः सन् अप्सरोभिर्विहरति युद्धमरणे स्वर्गलाभादप्सरः प्राप्तिरिति भावः । अत्र विहरतौति पदस्य तदर्थस्य च उत्तरवाको पुनरावृत्तेः उभयावृत्तिरिति बोध्यम् ॥ ११८ ॥ इति उक्तप्रकारः आवृत्त्यलङ्कारस्य गणः प्रभेद इत्यर्थः । आक्षेपं निरूपयति प्रतिषेधेति । प्रतिषेधस्य उक्तिः कथनं नं तु तत्त्वतः प्रतिषेधः, तात्त्विकत्व वैचित्राभावात् अलङ्कारः त्वाभावप्रसङ्गात् इति भावः । आक्षेपः प्रतिषेधाभास इत्यर्थः 1 उक्तञ्च आग्नेयपुराणे, प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया । तमाक्षेपं ब्रुवन्तौति । स च त्रैकाल्यापेक्षया त्रैकालिक वस्तुगतत्वेन विधा वर्त्तमानाक्षेपः अतीताक्षेपः भविष्यदाक्षेप इति अस्य च त्रिधिस्थापि आक्षेपस्य पुनः आक्षेप्यस्य आक्षेपविषयस्य भेदात् अनन्ततो अनन्तप्रभेद इत्यर्थः ॥ १२० ॥ वृत्ताक्षेपं निर्दिशति अनङ्ग इत्यादि । अनङ्गः कामः इषुभिर्वाणभूतैः पञ्चभिः पुष्पैः अरविन्दादिभिः । उक्तञ्च, अरविन्दमशोकञ्च चूतञ्च नवमल्लिका । नीलोत्पलञ्च पञ्चैते पचबाणस्य सायंकाः ॥ इति । विश्वं व्यजयत विजितवान् इति
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy