________________
२५२
काव्यादर्भ
शयनीये परावृत्त्य शयिती कामिनी क्रुधा। तथैव शयितौ रागात् खैरं मुखमचुम्बताम् ॥११६ विजितात्मभवहेषिगुरुपादहतो जनः । ' हिमापहामिवधरैर्व्याप्नं व्योमाभिनन्दति ॥ १२० ॥ प्रकष्टकेशाख्या येन सः यः तव भूमिधरा नास्ति भूमियंत्र सः अधरः तत्साह्वयः तस्य समाननामा श्रोष्ठ इत्यर्थः, सः अद्य मां प्रभूतोत्कम् अत्युत्सुकं करोति प्रबालसदृशस्तवाधरो मां व्यर्थयतीत्यर्थः । अत्र प्रकष्टकेशाख्या अभूमिशब्दश्च लक्षितलक्षणया प्रबालाधरौ बोधयत इति प्रकृतस्य समानशब्देनोपस्थितेः समानशब्देयम् ॥ ११८॥
संमूढां दर्शयति शयनीये इति। कामिनी क्रुधा कोपेन परावृत्त्य शयमीये शय्यायां शयिती रागात् तथैव शयितौ सन्ती खैरं खच्छन्दं मुखम् अचुम्बताम् । अत्र क्रुधा परावृत्त्य शयितयोः खैरं मुखचुम्बनस्य दुर्घटत्वादापाततो मोहः पर्यवसाने तथैव शयिताविति पुनः परावृत्त्य पार्खान्तरेण शयितयोः सम्मुखौनत्वात् मुखचुम्बनं सुघटमेवेति संमूढ़ेयम् ॥ ११८ ॥ __परिहारिकां दर्शयति विजितेति। विना पक्षिणा गरुडेनेत्यर्थः, जितः इन्द्र इत्यर्थः तस्य आत्मभवः पुत्रः अर्जुन इत्यर्थः, तस्य देषी शत्रुः कर्ण इत्यर्थः, तस्य गुरुः पिता सूर्य इत्यर्थः, तस्य पादैः किरणैः हतः सन्तप्तः जनः हिमम् अपहन्तीति हिमापहः अग्निः तस्य अमित्राः शत्रवः जलानि इत्यर्थः, तेषां धरा: अम्भोधराः तैः व्याप्त व्योम आकाशम् अभिनन्दति। अत्र यौगिकशब्दैः प्रकृतार्थस्य हरणात् परिहारिका ॥ १२॥