________________
तौय: परिच्छेदः। तद्रव्यं नरं त्यक्ता धनवन्तं व्रजन्ति काः । नानाभनिसमाकृष्टलोका वेश्या न दुईराः ॥११॥ जितप्रकृष्टकेशाख्यो यस्तवाभूमिसाह्वयः । स मामद्य प्रभूतोत्कं करोति कलभाषिणि ! ११८
श्रितः। गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः इत्यत्र सजलकुम्भरूपवस्तुनि प्रतिपाद्ये नानार्थकल्पनाबामान्तरिता इति बोध्यम् ॥ ११६ ॥
निभृतामुदाहरति हृतव्यमिति। नानाभङ्गिभिः बहुविधविलासचेष्टितैः समावष्टाः लोका: याभिः तथोक्ताः तथा दुईराः दुःखेन ध्रियमाणाः कथञ्चिदपि अवश्याः का: हृतानि द्रव्याणि यस्य तादृशं नरं त्या धनवन्तं व्रजन्ति ? वेश्या न वेश्या मम प्रश्नविषया नेत्यर्थः सहजः । संवरणीयार्थस्तु नाना विविधा भङ्गास्तरङ्गाः सन्त्यस्मिबिति नानाभनि जलं तेन समावष्टा लोका अवतरणोत्सुका जना याभिस्ताः दुईराः धरात् पर्वतात् दुःखेन गताः कष्टेन निर्गता इत्यर्थः कृतानि स्रोतोवेगेन ध्वंसितानि द्रव्याणि पार्वतीयानि यस्य तं नरं नरसदृशम् पाश्रयभूतं पर्वतमित्यर्थादायातं त्यक्ता धनवन्तं रखाकरं व्रजन्ति । अत्र विशेषणसाधारण्यात् एकतरनिषेधे अन्यतरप्रतीतियुनोति नद्य इति प्रश्नविषयोऽर्थः । अस्य तुल्यविशेषणप्रतीतौ वाचकशब्दानुपादानात् निभृतात्वमित्यपि बोध्यम् ॥ ११७ ॥
समानशब्दां दर्शयति जितेति। हे कलभाषिणि ! मधुरभाषिणि ! प्रलष्टस केशस्य आख्या नाम प्रबालः, जिता