SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ द्वतीयः परिच्छेदः। २५३ न स्मशत्यायुधं जातु न स्त्रीणां स्तनमण्डलम्। अमनुष्यस्य कस्यापि हस्तोऽयं न किलाफलः ॥१२१ केन कः सह सम्भूय सर्वकार्येषु सन्निधिम् । लब्ध्वा भोजनकाले तु यदि दृष्टो निरस्यते॥१२२ सहया सगजा सेना सभटेयं न चेज्जिता । एकच्छन्नां दर्शयति नेति। कस्यापि अमनुष्यस्य कापुरुषस्य इत्यर्थः हस्तः जातु कदाचित् आयुधं न स्पृशति स्त्रीणां स्तनमण्डलञ्च न स्पृशति, तथापि अयं हस्तः न अफल: किल, अपि तु सफल एवेति आपाततः प्रतीयते परन्तु आयुधस्त्रीस्तनस्पर्शाभावेन नायं वीरः न वा विलासीत्यतः कथमस्य हस्तस्य फलवत्त्वमिति पर्यवसानात् अमनुष्यशब्देन गन्धर्वो लक्ष्यते, तस्य हस्त: गन्धर्वहस्तः एरण्डवृक्ष इत्यर्थः। उक्तञ्च हारावल्याम्, प्रमण्डपञ्चाङ्गुलवईमानो गन्धर्वहस्तस्त्रिपुटीफलञ्च इति तस्य फलवत्ता विद्यत एवेति आश्रितस्य फलस्य स्फुटत्वं न तु आश्रयस्य वृक्षस्येति एकच्छवेयम् ॥ १२१ ॥ । - उभयच्छन्त्रां दर्शयति केनेति। कः पदार्थ : केन पदार्थ न सह सम्भूय मिलित्वा सर्वकार्येषु सन्निधिं सम्पर्क लब्ब्धा । भोजनकाले तु, तुशब्दोऽवधारणे। भोजनकाल एव यदि दृष्टो भवति तदा निरस्यते निराक्रियते ? उत्तरमिदम्। यथा, कस्य अयं कः केशः कशब्दार्थ ष्णप्रत्ययः । केन मस्तकेन सह सम्भूय तथा सर्वकार्येषु सन्निधिं समादरं लब्ध्वा भोजनकाले एव दृष्टो निरस्यते इति अत्र आश्रयायिणोर्मस्तककेशयोरेव छबतति उभयच्छन्ना ॥ १२२ ॥ सौणां दर्शयति सहया इति। सहया साखा सगजा
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy