________________
२५८
काव्यादर्श
जहि शत्रुबलं कृत्सुं जय विश्वम्भरामिमाम् । तक नैकोऽपि विदेष्टा सर्वभूतानुकम्पिनः ॥१३२॥ अस्ति काचिदवस्था सा साभिषङ्गस्य चेतसः । यस्यां भवेदभिमता विरुद्धार्थापि भारती ॥१३३॥ परदाराभिलाषो मे कथमार्यस्य युज्यते। पिबामि तरलं तस्याः कदा नु दशनच्छदम्॥१३४॥
पूर्वापरपराहतं पूर्वापरयोः पाद्यन्तभागयोः पराहतं सङ्गतिरहितं तत् काव्यं व्यर्थम् इति दोषेषु मध्ये पठाते गण्यते । अर्थविरोधश्च शाब्दबोधानन्तरं पालोचनया प्रतीयते, अपार्थे तु आकाङ्क्षादीनाम् अभावेन शाब्दबोध एव नास्तीत्यनयोआंदः ॥ १३१॥ __ व्यर्थतां दर्शयति नहीति। कत्नं समग्र शत्रुषलं जहि नाशय, इमां विश्वम्भरां जय, सर्वभूतानुकम्पिनः सर्वभूतेषु दयावतस्तव एकोऽपि विद्देष्टा शत्रुः न अस्तौति शेषः । अत्र शत्रुशून्यस्य समग्रशत्रुहननं सर्वभूतानुकम्पिनश्च पृथिवौविजयः पयालोचनया विरुद्धतया प्रतीयते ॥ १३२ ॥ . कदाचिद् व्यर्थताया गुणत्वमपोत्याह अस्तौति साभिषङ्गस्य वियोगादिदुर्घटनाभिभूतस्य, अभिषङ्गः पराभवे इत्यमरः। चेतसः काचित् अनिर्वचनीया अवस्था अस्ति भवति, यस्यां सा विरुद्धार्थापि भारती वाणी अभिमता समादृता भवेत् ॥ १३३ ॥ ... अस्या गुणत्वं दर्शयति परेति। मार्यस्य साधोः मे मम परदाराभिलाषः परस्त्रीषु अभिरतिः कथं युज्यते, तस्याः पर