SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ हतीयः परिच्छेदः । समुद्रः पीयते देवैरहमस्मि जरातुरः । अमी गर्जन्ति जौमृता हरेरैरावणः प्रियः ॥१२॥ इदमखस्थचित्तानामभिधानमनिन्दितम् । इतरब कविः को वा प्रयुञ्जीतेवमादिकम् ॥१३०॥ एकवाक्ये प्रबन्धे वा पूर्वापरपराहतम् । विरुद्धार्थतया व्यर्थमिति दोषेषु पठ्यते ॥ १३१ ॥ अपार्थत्वं दर्शयति समुद्र इति। देवैः सुरैः मेधैर्वा समुद्रः पोयते, देवैरित्यत्र सोऽयमिति पाठश्च दृश्यते। अहं जरातुरः अस्मि, अमौ जीमूता मेघा गर्जन्ति, ऐरावण: ऐरावतनामा हस्तो हरैरिन्द्रस्य प्रियः । अत्र वाक्यचतुष्टयस्य परस्पराकाद्धाभावेन अङ्गाङ्गित्वाभावात् एकवाक्यता नास्तीत्यतः समुदायस्य एकरूपोऽर्थो नास्ति। उक्तञ्च, स्वार्थबोधसमाप्तानाम् अङ्गाङ्गित्वव्यपेक्षया। वाक्यानाम् एकवाक्यत्वं पुन: संहत्य जायत इति इदञ्च बहुवाक्यगतम् अपार्थत्व बहुपदगतमपि दृश्यते । यथा, वह्निना सिञ्चतीत्यादौ योग्यताभावेन नैकार्थता इति बोध्यम् ॥ १२८ ॥ __इदमिति। अस्वस्थचित्तानाम् उन्मत्तादीनाम् इदं पूर्वोक्तम् अभिधानं समुद्रः पोयत इत्यादि वचनम् अनिन्दितम् अदुष्टवेन परिगृहीतं भवतीति शेषः, इतरत्र अस्वस्थचित्तादिभ्य इति शेषः उन्मत्तादीन् विना इत्यर्थः को वा कविः एवमादिक प्रयुञ्जीत न कोऽपि कविः प्रयुञ्जौतेत्यर्थः ॥ १३० ॥ ___ व्यर्थं निरूपयति एकवाक्ये इति। एकवाक्ये एकस्मिन् वाक्ये वा प्रबन्धे महावाक्ये विरुद्धार्थतया विपरीतार्थत्वेन यत्
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy