SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०३ बतीयः परिच्छेदः। सकलापोल्लसनया कलापिन्यानु नृत्यते । मेघाली नर्त्तिता वातैः सकलापो विमुञ्चति॥२२॥ खयमेव गलन्मानकलि कामिनि ! ते मनः । कलिकामिह नीपस्य दृष्ट्वा कां न स्पृशद्दशाम्॥२३॥ आरुह्याक्रीड़शैलस्य चन्द्रकान्तस्थलौमिमाम् । नृत्यत्येष चलच्चारुचन्द्रकान्तः शिखाबलः ॥२४॥ सप्रणयकोपं यथा तथा श्रवणोत्पलताड़नं कर्णोत्पलाभ्यां प्रहारं करोति। अत्र प्रथमटतोयपादगतं व्यवहितं मिश्रमादिभागयमकम् ॥ २१ ॥ सकलेति। वातैः नर्त्तिता सकला मेघाली घनश्रेणी अपः जलानि विमुञ्चति वर्षति, अनु पश्चात् अनन्तरमेव कलापस्य पिच्छस्य उल्लसनेन वर्तमानया कलापिन्या मयूर्या नृत्यते । वर्षावर्णनमिदम् । अत्र प्रथमचतुर्थपादगतं मिथं व्यवहितमादिभागयमकम् ॥ २२ ॥ ___ स्वयमिति। हे कामिनि ! स्वयमेव कान्तानुनयं विनैव गलन् मानरूपः कलिः कलहः यस्मात् तादृशं तव मन: इह वर्षासु इत्यर्थः नौपस्य कलिकां कोरकं दृष्ट्वा कां दशाम् अवस्थां न स्पृशेत् ? अपितु सर्वामवेत्यर्थः । वर्षासु अतिकोमलं मनः विरहे कथं सान्त्वयिष्यसोति भावः । अत्र हितोयटतीयपादगतं मित्रं व्यवहितमादिभागयमकम् ॥ २३ ॥ अरुह्येति। आक्रीड़शैलस्य क्रीड़ापर्वतस्य इमां चन्द्रकान्तमणिविशेषनिर्मितां स्थली स्थानम् श्रारुह्य एष शिखाबलः मयूरः चलत् चार मनोज्ञ यत् चन्द्रकं मचकं तेन अन्त:
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy